________________
पुण्यफलेन-शुभकर्मफलेनोपपेतः-अन्वितः स पुण्यफलोपपेतः इति ॥ यथा त्वं 'जानासि' अवधारयसि संभत" पर्वजन्मनि संभताभिधान! 'महानुभागं बृहन्माहात्म्यं 'महर्द्धिकं' सातिशयविभूतियुक्तम् अत एव पुण्यफलोपेतं चित्रमपि 'जानीहि' अवबुध्यख तथैव' अविशिष्टमेव 'राजन्!' नृप!, किमित्येवमत आह-ऋद्धिः-सम्पत् द्युतिःदीप्तिस्तस्यापीति-जन्मान्तरनामतश्चित्राभिधानस्य, ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता-बहीत्यर्थः, यद्वाऽऽत्मा मम पुण्यफलोपेत इति, अनेन चित्र एवात्मानं निर्दिशति, तथा जानीहि संभूत इत्यादी
आत्मेत्यनुवर्तते, अर्थवशाच विभक्तिपरिणामः, ततश्चैवं योज्यते-हे संभूत ! यथा त्वमात्मानं महानुभागादिवि|शेषणविशिष्टं जानासि तथा चित्रमपि जानीहि, चित्रनाम्नो ममापि गृहस्थभावे एवंविधत्वादेवेति भावः, शेष प्राग्वत् ॥ यदि तवाप्येवंविधा समृद्धिरासीत् तकिमिति प्रनजित इत्याह-महान्-अपरिमितोऽनन्तद्रव्यपर्यायात्मकतयाऽर्थः-अभिधेयं यस्य तन्महार्थ रूपं-स्वरूपं न तु चक्षुाह्यो गुणः, ततो महार्थ रूपं यस्याः सा तथा, महतो वाऽर्थान्-जीवादितत्त्वरूपान् रूपयति-दर्शयतीति महार्थरूपा, 'वयणप्पभूय'त्ति वचनेन अप्रभूता अल्पभूता वा-अल्पत्वं प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेतियावत् , केयमीदृशीत्याह-गीयत इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अन्विति-तीर्थकृद्गणधरादिभ्यः पश्चाद्गीता अनुगीता, कोऽर्थः ?-तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता स्थविरैरिति शेषः, अनुलोमं वा गीताऽनुगीता, अनेन श्रोत्रनुकूलैव देशना क्रियत
RRC4%
AR
उत्तराय.६५
JainEducational
For Private & Personal use only
ibrary.org