________________
प्रत्यन्तराजानः, समुत्पन्नं चक्ररलं,प्रारब्धस्तदुपदर्शितमार्गेण दिग्विजयः, प्राप्तः काम्पिल्ये, निर्गतस्तदभिमुखं दीर्घपृष्ठो, लग्नमनयोरायोधनं, विनिपातितोऽसौ ब्रह्मदत्तेन, एवं च बोद्धव्यस्तस्य दीर्घपृष्ठविषयरोषमोक्षश्च, अत्रान्तरे मिलिताः परिणीतकन्यापितरः, समुत्पन्नानि च यथाऽवसरं शेषरत्नानि, साधितं षट्रखण्डमपि भरतं, प्राप्ताश्च नवापि निधयः, परिणतं चक्रवर्तिपदं, एवं च सुकृतफलमुपभुजतोऽतिक्रान्तः कियानपि कालः, अन्यदा चोपनीतं देवतया मन्दारदाम, समुत्पन्नं तद्दर्शनादस्य जातिस्मरणं-अनुभूतानि मयैवंविधकुसुमदामानि, अहं हि नलिनगुल्मविमाने देवोऽभवं ॥ इत्येकादशनियुक्तिगाथार्थः । इत्थं तावत्काम्पिल्ये संभूतश्चक्रवर्ती जातः, चित्रस्य तु का है वार्तेत्याह
चित्तो पुण जाओ पुरिमतालंमि । सिढिकुलंमि विसाले धम्मं सोऊण पव्वइओ ॥२॥ पादत्रयं, चित्रः पुनर्जातः पुरिमताले,स हि चित्रनामा महर्षिः तत्र संभृतिनाम्नि भ्रातरि तथाऽनशनं प्रतिपन्नव* त्यहो दुरन्तो मोहश्चित्रा कर्मपरिणतिश्चञ्चलं चित्तमित्यादि विचिन्त्य चतुर्विधमप्याहारं प्रत्याख्यातवान्, मृत्वा
च पण्डितमरणेन समुत्पन्नस्तत्रैव नलिनगुल्मनाम्नि विमाने, ततस्तत्र खस्थितिमनुपाल्योत्पन्नः पुरिमतालपुरे, तत्रापि केत्याह-'श्रेष्टिकुले' वणिकप्रधानान्वये 'विशाले' विस्तीर्णे पुत्रपौत्रादिवृद्धिमति, प्राप्तवयाश्च तथाविधस्थविरसन्निधौ
Jain Educatie
Galtional
For Privale & Personal use only
Milinelibrary.org