________________
उत्तराध्य. स्थितः पथि कुमारः प्राप्तं च मिथुनं, उक्तस्तत्पतिः-मदीयं कलत्रमिह गर्भशूलाभ्याहतमास्ते तद्विसर्जय क्षणमेकं चित्रसंभू
दाखकीयपत्नी. विसर्जिता चासौ तेनानकम्पापरेण. दृष्टश्च तयाऽसौ, जातस्तस्यापि तदनुरागः, प्रवृत्तं च तयो बृहद्धृत्तिः नकं, एवं च कियतीमपि वेलामतिक्रम्य विनिर्गताऽसौ कुडङ्गात् , उक्तं चात्मानं ख्यापयितुं कुमारं प्रति, यथा
तीयाध्य. ॥३८१॥ गहनं नदीकुडङ्गं ततोऽपि गहनतराण्येव गहनतरकाणि पुरुषहृदयानि भवन्ति, अयं चानेन ध्वनितोऽर्थः-यथा
वयं जानीमः स्त्रीहृदयान्यतिगहनानि भवचित्तेन च तान्यपि जितानीत्युक्त्वा पतिं प्रत्याययितुमाह-'देहाणि'न्ति देहीदानीं 'पूर्णपात्रम्' अक्षतभृतभाजनं प्रियं खलु 'नः' अस्माकं यद्दारको जात इति, ते (इति) वक्तव्ये यन्न इत्युक्तं तदैक्यं द्योतयितुं, इत्युक्त्वा च तया धूर्त्या गृहीतं ब्रह्मदत्तोत्तरीयं, गता च पत्यैव सह, ततश्च निर्गतोऽसौ कुडङ्गात्कृतपरिहासः प्रवृत्तो गन्तुं, प्रासः सुप्रतिष्ठं, तत्र च कुसकुण्डीनाम कन्या 'भिकुंडिवित्तासियंमि जियसत्तुं'ति आर्षत्वादुभयत्र सुब्व्यत्ययः, 'भिकुण्डिवित्रासिताद्' भिकुण्डिनामनृपतिनिष्काशितात् 'जितशत्रोः' जितशत्रुनामनृपतेः सकाशान्मथुरातोऽहिच्छत्रां ब्रजन् 'अन्तरे' अन्तराले 'लभते' प्राप्नोति । तथेन्द्रपुरे शिवदत्तो नाम रुद्रपुरे च विशाखदत्ताभिधानस्तहुहितरी 'बटुकत्वेन' दीर्घपृष्ठपुरुषभीत्या कृतब्राह्मणवेषेण लभते कन्ये द्वे राज्यं च । ततो राज- ३८२॥ गृहं मिथिला हस्तिनागपुरं चम्पां तथैव श्रावस्तीम् , अभ्रमीदिति शेषः 'एषा तु' अनन्तरमुपदर्शिता नगरहिण्डि-18 बोद्धव्या ब्रह्मदत्तस्येति ॥ एवं च भ्रमतोऽस्य मिलिताः कटककरेणुदत्तादयः पितृवयस्याः, गृहीताः कियन्तोऽपि|
SANCHAROSCOSMUSLCARE
Jain Educational
For Privale & Personal use only
ww.jainelibrary.org