________________
उत्तराध्य.
बृहद्वृत्तिः ॥३८२॥
१३
धर्म' यतिधर्म क्षान्त्यादिकं 'श्रुत्वा' आकर्ण्य 'प्रत्रजितः' प्रव्रज्या प्रतिपन्नवान् इति सूत्रभावार्थः ॥ ततः/चित्रसंभूकिमित्याहकंपिल्लंमि अनयरे समागया दोऽवि चित्तसंचया। सुहदुखफलविवागं कहिंति ते इक्कमिक्कस्स ॥३॥
तीयाध्य. __ काम्पिल्ये च नगरे-ब्रह्मदत्तोत्पत्तिस्थाने 'समागतो' मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामतः 'सुखदुःखफलविपाक' सुकृतदुष्कृतकर्मानुभवरूपं 'कहंति'त्ति कथयतः स्मेति शेषः, ततश्च कथितवन्तौ तौ चित्रजीवयतिब्रह्मदत्तौ 'एकमेक्कस्स'त्ति एकैकस्य परस्परमितियावत् इति सूत्राक्षरार्थः ॥ भावार्थस्तु नियुक्तिकृतोच्यतेजाईइ पगास निवेयणं च जाईपयासणं चित्ते । चित्तस्स य आगमणं इडिपरिच्चागसुत्तत्थो ॥३५५॥
तदा हि ब्रह्मदत्तो जातिस्मरणोपलब्धखजातीनां 'दासा दसन्नये आसी' इत्यादिना सार्द्धश्लोकेन जनाय प्रकाशनं निवेदनं च-य इमं द्वितीयश्लोकं पूरयति तस्मै राज्या महं प्रयच्छामीति विहितवान् , ततस्तदर्थिना जनेनो - प्यते, तद् ग्रामनगराकारादिषु पठ्यमानं चाकर्णितं कर्योपका चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोपयोगतः खजातीरुपलभ्य जातोऽस्याभिप्रायो यथा-गत्वा तं जन्मान्तरनिजभ्रातरं संभूतजीवमवबोधयामीति,
॥३८२॥ प्रस्थितस्ततः स्थानात् , प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्वहिरुद्याने, श्रुतश्चारघट्टिकपरिपठ्यमानः सार्द्धश्लोकः, पूरितश्चानेन द्वितीयश्लोकः, अवधारितश्चारपट्टिकेन, धावितश्चासौ नृपसकाशं राज्यलोमेन, पठितं चैतेन तत्पुरतः,
Jain Education International
For Privale & Personal use only
www.jainelibrary.org