SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३७६॥ मानाच्युत्वेति शेषः, इति सूत्राक्षरार्थः ॥ भावार्थस्त्वयम् स हि ब्रह्मदत्तः पूर्वजन्मनि वाराणस्या संभूतनामा चण्डाल-चित्रसंभूचित्रश्च तज्ज्येष्ठ आसीत् , तत्र च नमुचिनामा ब्राह्मणो ममान्तःपुरमपधर्षितमनेनेत्युत्पन्नकोपेन राज्ञा समर्पितो| तीयाध्य. मारणनिमित्तं मातङ्गाधिपस्य तत्पितुः, उक्तश्चायमेतेन-यदि मत्सुतौ सकलकलाकलापकुशलौ विधत्से ततोऽस्ति ते जीवितमन्यथा नेति, प्रारब्धं च तदर्थनाऽनेन तद्गृह एवातिगुप्तस्थानस्थितेन तदध्यापनं, ग्राहितो तो व्याकरणवीणापुरःसराः सकला अपि कलाः, अन्यदा च शुश्रूषापरायां तन्मातरि मोहोदयादयमुपपतित्वमाजगाम, ज्ञातस्तजनकेन, इष्टश्च मारयितुं, ज्ञातं तत्ताभ्यां, ज्ञापितं चास्मै, उपाध्यायोऽयमावयोस्ततो मा भूदस्यापदिति, तदवगमाच पलायितोऽसौ ततः स्थानात्, प्राप्तो हस्तिनागपुरं, कृतः सनत्कुमारचक्रवर्त्तिना मन्त्री । इतश्च तो चित्रसंभूतौ सातिशयगीतकलाक्षिप्ततरुणीजनात्यासक्तिहेतुतया त्याजितस्पृश्यास्पृश्य विभागौ जनेन राज्ञे निवेदिती, यथाविनाशितं नगरमाभ्यां, निषिद्धस्तेन नगरस्यान्तस्तत्प्रचारः, कदाचिच्च तावतिकुतूहलतया कौमुदीमहविलोकनार्थमागतो, दृष्टौ जनेन, कदर्थितावत्यर्थ, प्रवव्रजतुश्च तत एवोत्पन्नवैराग्यौ, जातौ विकृष्टतपोनिष्टप्सदेहौ, प्राप्ताश्चाभ्यां तेजोलेश्यादिलब्धयः, समापत्तितश्च गतौ हस्तिनागपुरं,प्रविष्टो मासक्षपणपारणके तत्र भिक्षार्थ संभूतयतिः, दृष्टश्च नमु चिना, जातोऽस्य चेतसि दुरध्यवसायो-महश्चरितमयं प्रकाशयिष्यतीति, निर्भत्सितो-धिग मुण्ड चाण्डाल!कनगरस्यान्तःप्रविष्टोऽसि ? इत्यादिनिष्ठुरवचोभिः, प्रहत इष्टकोपलशकलादिभिस्तत्परिजनेन, तदनु च समस्तलोकेन, *-*-155557558 ॥३७६॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy