SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Bouqueto Aud BUOREG चतुर्भिरपि देवायुः, जग्मुश्च देवलोकं, ततश्युतौ चाकृतजुगुप्सौ तु कतिचिद्भवान्तरितौ द्वाविषुकारपुरे द्विजकुले जातौ तद्वक्तव्यता च इपुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सकौ तौ दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारो, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधा - नाद, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात् इह च नामनिष्पन्ननिक्षेपे प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः । उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसर इति सूत्रमुच्चारणीयं तच्चेदम्जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरंमि । चुलणी बंभदत्तो उववन्नो नलिण ( पउम ) गुम्माओ ॥ १ ॥ 'जातिपराजितः' इति जात्या - प्रस्तावाच्चाण्डालाख्यया पराजितः - अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमाणन्यायतो नृपेण नमुचिनाम्ना च द्विजेन चाण्डाल इति नगरनिष्कासनन्यक्कारादिना पुरा जन्मन्यपमानित इत्येवमुक्तः, यद्वा जातिभिः - दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजित इति - पराभवं मन्यमानोऽहो ! अहमधन्यो यदित्थं नीचाखेव जातिषु पुनः पुनरुत्पन्न इति, 'खलुः' वाक्यालङ्कारे, स चैवंविधः किमित्याह'कासि'त्ति अकार्षीत् किमित्याह - 'निदान' चक्रवर्त्तिपदावाप्तिर्मम भवेदित्येवमात्मकं 'तुः' पूरणे, क्वेदं कृतवान् ? इत्याह- ' हत्थिणपुरंमि' त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः 'उबवण्णो' त्ति उत्पन्नः 'पद्मगुल्मात्' इति नलिनगुल्मवि paurer
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy