SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ कुपितश्चासौ तेभ्यः समस्तजनदहनक्षमामसह्यतेजोलेश्यां मोक्तुमुपचक्रमे, तत्र च मुखविनिर्यद्वहलधूमपटलान्धका| रितदिक्चक्रवाले व्याकुलितः सान्तःपुरः सनत्कुमारचक्रवर्त्ती सकलो नगरलोकश्च समायातस्तत्पार्थे, तद्वृत्तान्तश्रवणतश्चित्रश्च, प्रारब्धस्तैरनेकधा सान्त्वनवचनैरुपशमयितुं, तथाऽपि तत्रात्मानमस्मरत्यतिकोपवशगे भगवति मा भूद| स्माकमकस्माद्भस्मीभवनमिति स्त्रीरत्वसहितो महीपतिस्तं क्षमयाम्बभूव, यथा- भगवन् ! क्षमितव्यमस्माकमिदमिति, अस्मिंश्चान्तरे स्त्रीरत्नकोमलाल स्पर्शसमुत्पन्नतदभिलाषो विगलितानुशयश्चाण्डालजातिरेव ममैवमनेकधा कदर्थना - हेतुरिति चिन्तयंश्चित्रयतिना निवार्यमाणोऽपि यदि ममास्य तपसः फलमस्ति तदाऽन्यजन्मनि चक्रवर्त्तित्वमेव मम भूयाद् येनाहमप्येवं ललितललनाविलासास्पदमुत्तमजातिश्च भवामीति निदानवशगोऽनशनं प्रपेदे । ततः स तपोऽनुभावतो नलिनगुल्मविमाने वैमानिकत्वेनाजनि, ततश्च च्युतश्रुलन्यां ब्रह्मदत्तः समुत्पेदे । क ? इत्याह कंपिल्ले संभूओ । 'काम्पिल्य' इति पञ्चालमण्डलस्य तिलक इव काम्पिल्यनाम्नि नगरे 'संभूत' इति पूर्वजन्मनि संभूतनामा । अमुं पादमतिक्रान्तसूत्रोत्तरपादद्वयं चैतद्गदितार्थप्रसङ्गायातार्थान्तराभिधानद्वारतः स्पृशन् सूत्रस्पर्शिकनिर्युक्तिमाह नियुक्तिकृत् Jain Educationtional For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy