________________
Jain Education
महाप्रसादा ऋषयः - साधवो भवन्ति, व्यतिरेकमाह - 'न हुत्ति न पुनर्मुनयो यतयः 'कोपपराः ' क्रोधवशगा भवन्ति, भिन्नवाक्यत्वाच मुनिग्रहणमदुष्टमेवेति सूत्रार्थः ॥ मुनिराह -
पुचि इह च अणागयं च, मणप्पओसो न में अस्थि कोई । जक्खा हु वेयावडियं करिंति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥
'पुधिं च' त्ति पूर्व च पुरा इदानीं च - अस्मिन् काले 'अणागयं चे 'ति अनागते च भविष्यत्काले मनः प्रद्वेषः - चित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणत्वादासीद्भविष्यति च, 'कोऽपी' यल्पोऽपि, इह च भाविनि प्रमाणाभावेऽपि 'अनागतं प्रत्याचक्ष' इति वचनादनागतस्यापि तस्य निषिद्धत्वाच्छुतज्ञानबलतः कालत्रयपरिज्ञानसम्भवाञ्चैवमभिधानं, पठन्ति च 'पुत्रिं च पच्छा व तहेव मज्झे' तत्र च पूर्व वा पश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव न च कुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, 'यक्षा' देवविशेषा 'हु' रिति यस्माद्वैयावृत्त्यंप्रत्यनीकप्रतिघातरूपं कुर्वन्ति' विदधति, 'तम्ह'त्ति तस्मात् हुरवधारणे ततस्तस्मादेव हेतोरेते - पुरोवर्त्तिनो | नितरां हताः - ताडिता निहताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ॥ सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः
ational
For Private & Personal Use Only
ainelibrary.org