SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३६७॥ च - नयनानि जिह्वानेत्राणि येषां ते तथा तान्, 'तानि'त्युक्तरूपान् 'दृष्ट्वा' अवलोक्य 'खंडिय'त्ति आर्षत्वात्सुपो | लुकि खण्डिकान् - छात्रान् काष्ठभूतान् - अत्यन्तनिश्रेष्टतया काष्ठोपमान् विगतमिव विगतं मनः- चित्तमस्येति विमनाः, | विषण्णः - कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथे 'ति दर्शनानन्तरं 'ब्राह्मणो' द्विजातिः 'स' इति | सोमदेवनामा 'ऋषि' तमेव हरिकेशबलनामानं मुनिं 'प्रसादयति' प्रसत्तिं ग्राहयति, सह भार्यया - पत्या तयैव | भद्राभिधानया वर्त्तते इति सभार्याकः, कथमित्याह - हीलां च-अवज्ञां निन्दां च - दोपोद्घट्टनं 'खमाह'त्ति क्षमख सहस्व 'भंतेति' सूत्रद्वयार्थः ॥ पुनः स प्रसादनामेवाह - बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते ! । महसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥ बालैः- शिशुभिर्मूढैः - कषायमोहनीयोदयाद्विचित्तता गतैः अत एव चाज्ञैः - हिताहितविवेक विकलैः 'यदि' त्युपत्रदर्शने 'हीलिताः' अवज्ञाताः 'तस्स'त्ति सूत्रत्वात् तत् 'खमाह'ति क्षमध्वं भदन्त !, अनेनैतदाह - यतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेपामुपरि कोपेन ?, यतोऽनुकम्पनीया एवामी, उक्तं च केनचिद् - " आत्मद्रुहममर्यादं, मूढमु|ज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥" किं च- महान् प्रसादः - चित्तप्रसत्तिरूपो येषां ते Jain Educationational For Private & Personal Use Only | हरिकेशी यमध्यय नम्. १२ ॥३६७॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy