SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ETFUNCT D तेजसैकतस्तेषाम् ॥ १ ॥” तथा लौकिका अप्याहु:- " न तत् दूरं यदथेषु, यवानौ यच मारुते । विषे च रुधिरप्राप्ते, | साधौ च कृतनिश्चये ॥ १ ॥” इति सूत्रत्रयार्थः ॥ सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा च यदचेष्टत तदाहअवहेडियपिट्टिसउत्तमंगे, पसारियाबाहुअकम्मचिट्ठे । निभेरियच्छे रुहिरं वमंते, उमुहे निग्गयजीह नित्ते ॥ २९ ॥ ते पासियाखंडिय कभूए, विमणो विसन्नो अह माहणो सो । इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥ 'अवे'धो 'हेडिय'त्ति हेठितानि - वाधितानि, किमुक्तं भवति ? - अधोनामितानि, पठन्ति च 'आवडिए 'त्ति तत्र सूत्रत्वादवकोटितानि - अधस्तादामोटितानि 'पट्टि 'त्ति पृष्ठं यावत् तदभिमुखं वा सन्ति-शोभनान्युत्तमाङ्गानि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अवकोटितपृष्ठसदुत्तमाङ्गो वा प्राग्वन्मध्यपदलोपी समासस्तान् 'पसारियाबाहु| अकम्मचिट्ठ'त्ति प्रसारिता - विरलीकृता बाहवो - भुजा यैर्येषां वा ते तथा ततस्ते च ते अकर्मचेष्टाश्च - अविद्यमानकर्महेतुव्यापारतया प्रसारितवाह्वकर्म्मचेष्टास्तान्, यद्वा क्रियन्त इति कर्माणि - अग्नौ समित्प्रक्षेपणादीनि तद्विपया चेष्टा कर्मचेष्टेह गृह्यते, 'निब्भेरिय'त्ति प्रसारितान्यक्षीणि-लोचनानि येषां ते तथोक्तास्तान्, रुधिरं वमद्उद्गिरत् 'उडूंमुह 'त्ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्रान्, अत एव निर्गतानि निःसृतानि जिह्वाश्च प्रतीता नेत्राणि | Jain Education ional For Private & Personal Use Only library.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy