________________
हरिकेशी
यमध्यय
नम्.१२
उत्तराध्य.
मान् , शापानुग्रहसमर्थ इत्यर्थः, यद्वा आसीविष इव आसीविषः, यथा हि तमत्यन्तमवजानानो मृत्युमेवाप्नोति,
एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो ?, यतः-उग्रतपाः प्राग्वत्, बृहद्धृत्तिः
|'महेसित्ति महान्-बृहन् शेषवर्गाद्यपेक्षया मोक्षस्त मिच्छति-अभिलपतीति महदेषी महर्षिा, घोरव्रतो घोर॥३६६॥ पराक्रमश्च पूर्ववत् , यतश्चैवमतः 'अगणिं वत्ति अग्नि-ज्वलनं, वाशब्द इवार्थो भिन्नक्रमश्च, ततः 'पक्खंद'त्ति प्रस्क
लन्दथेव-आक्रामथेव, केव ?-'पतंगसेण'त्ति उपमार्थस्य गम्यमानत्वात्पतङ्गानां-शलभानां सेनेव सेना-महती
सन्ततिः पतङ्गसेना तद्वत् , यथा हि असौ तत्र निपतन्त्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षु भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छत किन्तु तत्रापि 'वह'त्ति विध्यथ-ताडयथ, अयमाशयो-यतोऽयमासीविषादिविशेषणान्वितो मुनिरतो गिरिनखखननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ । अथ खकृत्योपदेशमाह-'शीर्षण' शिरसा 'एन' मुनिं 'शरणार्थ' रक्षणार्थमाश्रयमुपेत-अभ्युपगच्छत, किमुक्तं भवति ?-शिरःप्रणामपूर्वकमयमेवास्माकं शरणमिति प्रपद्यध्वं, 'समागताः' सम्मिलिताः 'सर्वजनेन' समस्तलोकेन, सहार्थे तृतीया, 'यूयं भवन्तो, यदीच्छत-अभिलपत 'जीवितं' प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छरणमस्ति, किमित्येवमत आह'लोकमपि' भुवनमप्येष कुपितः-क्रुद्धो 'दहेद्' भस्मसात्कुर्यात् , तथा च वाचक:-"कल्पान्तोग्रानलवत्प्रज्वलनं
XXXMARC5%95554
॥३६६॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org