SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Jain Education | समीपे ये त उपज्योतिषस्त एवोपज्योतिष्काः - अग्निसमीपवर्त्तिनो महानसिका ऋत्विजो वा 'अध्यापकाः पाठकाः, ते वा उभयत्र वा विकल्पे 'सहे' ति युक्ताः, कैः ? - 'खण्डिकै : ' छात्रैः, ये किमित्याह - 'एनं' श्रवणकं 'दण्डेन' वंशयध्यादिना 'फलेन' बिल्वादिना 'हंते 'ति हत्वा - ताडयित्वा यद्वा 'दण्डेने 'ति कूर्पराभिघातेन 'फलेन' च मुष्टिप्रहारेणेति वृद्धाः, ततश्च 'कण्ठे' गले 'गृहीत्वा' उपादाय 'खलेज्ज' त्ति स्खलयेयुः - निष्काशयेयुः, 'यो'त्ति वचनव्यत्ययाद्ये इत्थमेतदभिघाते निष्काशने वा शक्ताः, 'णमिति वाक्यालङ्कारे इति सूत्रार्थः ॥ अत्रान्तरे यदभूत्तदाह अज्झायाणं वयणं सुणित्ता, उद्वाइया तत्थ बहू कुमारा । दंडेहिं वित्तहिं कसेहिँ चेव, समागया तं इसि तालयंति ॥ १९ ॥ अध्यापकानाम् - उपाध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्बहुवचनं, 'वचनम्' उक्तरूपं 'श्रुत्वा' आकर्ण्य 'उद्धाविता'' वेगेन प्रसृताः 'तत्र' यन्त्रासौ मुनिस्तिष्ठति 'वहवः' प्रभूताः 'कुमारा' द्वितीयवयोवर्त्तिनश्छात्रादय इति गम्यते, | ते हि क्रीडनकपरा इत्यहो क्रीडनकमागतमिति रभसतो 'दण्डैः' वंशयष्ट्यादिभिर्वत्रैः - जलजवंशात्मकैः 'कशैः' वत्रविकारैः, चः समुच्चये, एवेति पूरणे, 'समागताः सम्प्राप्ता मिलिता वा तमृषिं - मुनिं 'ताडयन्ति' घ्नन्ति, सर्वत्र | वर्त्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः ॥ अस्मिंश्चावसरे For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy