________________
उत्तराध्य.
हरिकेशी
बृहद्वृत्तिः
यमध्ययनम.१२
॥३६३॥
समिईहिं मजझं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स ।
जइ मे न दाहित्य अहेसणिज, किमज जन्नाण लभित्थ लाभं? ॥ १७॥ समितिभिः-ईर्यासमित्यादिभिर्मयं सुष्टु समाहिताय-समाधिमते सुसमाहिताय गुप्तिभिः-मनोगुप्त्यादिभिर्गुप्ताय जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदी'सभ्युपगमे 'मे' मह्यं 'मझंतीत्यस्य व्यवहितत्वात् क्रिया प्रति पुनरुपादानमदुष्टमेव 'न दास्यथ' न वितरिष्यथ, 'अथे'त्युपन्यासे आनन्तर्ये वा, 'एषणीयम्' एषणाविशुद्धमन्नादिकं, किं न किञ्चिदित्यर्थः, 'अज'त्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज'त्ति हे आर्या ! यज्ञानां 'लभित्थ'त्ति सूत्रत्वाल्लप्स्यध्वे-प्राप्स्यध्वं 'लाभ' पुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव, उक्तं हि-"दधिमधुघृतान्यपात्रे क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ती॥१॥" ति सूत्रार्थः ॥ इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यते
के इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं ।
एयं खु दंडेण फलेण हंता, कंठंमि चित्तूण खलिज जो णं ॥१८॥ के 'अत्रे'सेतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः 'उवजोइय'त्ति ज्योतिषः
॥३६॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org