SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Education भैक्षवृत्तेरेव समर्थितत्वात्, तथा च वेदानुवादिनः - " चरेद् माधुकरीं वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥ १ ॥” यदिवोच्चावचानि - विकृष्टाविकृष्टतया नानाविधानि, तपांसीति गम्यते, उच्चत्रतानि वा | शेषप्रतापेक्षया महात्रतानि ये मुनयश्चरन्ति - आसेवन्ते, न तु यूयमिवाजितेन्द्रिया अशीला वा, तान्येव मुनिलक्ष - णानि क्षेत्राणि सुपेशलानीति प्राग्वदिति सूत्रार्थः ॥ इत्थमध्यापकं यक्षेण निर्मुखीकृतमवलोक्य तच्छात्राः प्राहुः - अज्झायाणं पडिकूलभासी, पभाससे किन्नु सगासि अम्हं ? | अवि एवं विणस्स अन्नपाणं, न य णं दाहामु तुमं नियंठा ! ॥ १६ ॥ अध्यापयन्ति - पाठयन्तीत्यध्यापकाः - उपाध्यायास्तेषां प्रतिकूलं - प्रतिलोमं भाषते वक्तीत्येवंशीलः प्रतिकूलभाषी सन् प्रकर्षेण भाषसे- ब्रूपे प्रभाषसे, किमिति क्षेपे, तुरित्यक्षमायां ततश्च धिग् भवन्तं न वयं क्षमामहे यदित्थं भवान् ब्रूते सकाशे - समीपे 'अहं'ति अस्माकम् अपिः सम्भावनायां, 'एतत्' परिदृश्यमानं 'विनश्यतु' कथित - त्वादिना स्वरूपहानिमाप्नोतु 'अन्नपानम्' ओदनकाञ्जिकादि, 'न च' नैव 'ण' मिति वाक्यालङ्कारे 'दाहामुळे त्ति दास्यामस्तव हे निर्ग्रन्थ ! - निष्किञ्चन !, गुरुप्रत्यनीको हि भवान्, अन्यथा तु कदाचिदनुकम्पया किञ्चिदन्तप्रान्तादि दद्यामोऽपीति भाव इति सूत्रार्थः ॥ यक्ष आह Donal For Private & Personal Use Only inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy