________________
हरिकेशी
उत्तराध्य.
यमध्यय
बृहद्वृत्तिः
| नम्. १२
॥३६॥
खित्ताणि अम्हं विइयाणि लोए, जहिं पकिन्ना विरुहंति पुण्णा ।
जे माहणा जाइविज्जोववेया, ताई तु खित्ताई सुपेसलाई ॥ १३ ॥ 'क्षेत्राणी'ति क्षेत्रोपमानि पात्राण्यस्माकं विदितानि' ज्ञातानि. वर्तन्त इति गम्यते, 'लोके' जगति 'जहिं ति वचनव्यत्ययायेषु क्षेत्रेषु प्रकीर्णानीव प्रकीर्णानि-दत्तान्यशनादीनि 'विरोहन्ति' जन्मान्तरोपस्थानतः प्रादुर्भवन्ति 'पूर्णानि समस्तानि, न तु तथाविधदोषसद्भावतः कानिचिदेव. स्यादेतद--अहमपि तन्मध्यवयैवेत्याशङ्कयाह-ये 'ब्राह्मणा' द्विजाः, तेऽपि न नामत एव, किन्तु जातिश्च-ब्राह्मणजातिरूपा विद्या च-चतुद्देशविद्यास्थानात्मिका ताम्याम् 'उववेय'त्ति उपेता-अन्विता जातिविद्योपेताः, 'ताई तु'त्ति तान्येव क्षेत्राणि 'सुपेसलाणि'त्ति सुपेशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानि-शोभनानि प्रीतिकराणि वा, न तु भवादशानि शूद्रजातीनि, शूद्रजातित्वादेव वेदादिविद्यावहिष्कृतानीति, यत उक्तम्-"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्य, अनन्तं वेदपारगे ॥१॥” इति सूत्रार्थः ॥ यक्ष उवाच
कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च ।
ते माहणा जाइविजाविहीणा, ताई तु खित्ताई सुपावयाई ॥१४॥ 'क्रोधश्च' रोषः 'मानश्च' गर्वः, चशब्दान्मायालोभौ च, 'वधश्च' प्राणिघातो 'येषा'मिति प्रक्रमाद्भवतां
॥३६॥
Jain Education
For Private & Personal use only
wronaw.jainelibrary.org