________________
नपानं 'दाहामो'त्ति दास्यामः 'तुज्झति तुभ्यं, किमिह स्थितोऽसि ?, नैवेहावस्थितावपि तव किञ्चिदिति भाव इति सूत्रार्थः ॥ यक्ष आह
थलेसु बीयाई वयंति कासया, तहेव निन्नेसु य आससाए ।
एयाइ सद्धाइ दलाह मज्झं, आराहए पुण्णमिणं खु खित्तं ॥१२॥ ___ 'स्थलेषु' जलावस्थितिविरहितेषूच्चभूभागेषु 'बीजानि' गोधूमशाल्यादीनि 'वपन्ति' रोपयन्ति 'कासग'त्ति कर्षकाः कृषीवलाः, 'तथैव' यथोचस्थलेष्वेवमेव 'निम्नेषु च' नीचभूभागेषु च 'आससाए'त्ति आशंसया-यद्यत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया, एतयेवैतया-एतदुपमया, कोऽर्थः ?-उक्तरूपकर्षकाशंसातुल्यया 'श्रद्धया'वान्छया 'दलाह'त्ति ददध्वं मह्यं, किमुक्तं भवति ?-यद्यपि भवतां निम्नोपमत्वबुद्धिरात्मनि मयि तु स्थलतुल्यताधीः तथापि मह्यमपि दातुमुचितम् , अथ स्याद्-एवं दत्तेऽपि न फलावाप्तिरित्याह-'आराहए पुण्णमिणं खुत्ति खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वादाराधयेदेव-समन्तात्साधयेदेव, नानान्यथाभावः, 'पुण्यं' शुभमिदं-परिदृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यशस्यप्ररोहहेतुतया, आत्मानमेव पात्रभूतमेवमाह, पठ्यते च-'आराहगा होहिम पुण्णखेत्त'न्ति आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेन दानफलमाह, कुत |एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इति गम्यते, इति सूत्रार्थः ॥ यक्षवचनानन्तरं त इदमाहुः
उत्तराध्य.६१
Jain Educat
For Privale & Personal use only
D
ainelibrary.org