SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणानां 'मोसं'ति मृपा-अलीकभाषणं 'अदत्त'ति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा सत्येतियत् अद-14 त्तादानमुक्तं, चशब्दान्मैथुनं, 'परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधाधुपेता यूयं ब्राह्मणा जातिविद्याभ्यां विहीना-रहिता जातिविद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था, यत उक्तम्- “एकवर्णमिदं सर्व, पूर्वमासीयुधिष्ठिर ! । क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १ ॥ ब्राह्मणो ब्रम-2 चर्येण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥ २॥" न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न तावजातिसम्भवः, तथा विद्यापि सच्छास्त्रात्मिका, सच्छास्त्रेषु च । सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्-“पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ १॥” तयुक्तत्वं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः फलं रागाद्यभावश्च, यत उक्तम् -"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति ? शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥" न चैवमन्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलर-2 हितं वस्तु सत् , तथा च निश्चयो यदेवार्थक्रियाकारि तदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताई तु'त्ति तुरवधारणे भिन्नक्रमश्च, ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, lainelibrary.org Jain Educ For Private & Personal Use Only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy