________________
आहितान्यादित्वाच गुप्तशब्दस्य परनिपातः, एवं वाग्गुप्तो-निरुद्धवाक्प्रसरः, कायगुप्तः असत्कायक्रियाविकलो, जितेन्द्रियः प्राग्वत्, पुनरुपादानमस्य कादाचित्कत्वनिराकरणार्थमतिशयख्यापनार्थ वा, 'भिक्षार्थ' भिक्षानिमित्तं, न तु निष्प्रयोजनमेव, निष्प्रयोजनगमनस्यागमे निषिद्धत्वात् , 'बंभइजमि'त्ति ब्रह्मणां-ब्राह्मणानामिज्या-यजनं
यस्मिन् सोऽयं ब्रह्मज्यस्तस्मिन् , 'जण्णवार्ड'ति यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥ तं च तत्राछाऽऽयान्तमवलोक्य तत्रत्यलोका यदकुवस्तदाह
तं पासिऊणमिजतं, तवेण परिसोसियं । पंतोवहिउवगरणं, उवहसंति अणारिया ॥४॥ 'त'मिति बलनामानं मुनि 'पासिऊणं'ति दृष्ट्वा-निरीक्ष्य 'एजंतन्ति आयान्तमागच्छन्तं तपसा-षष्ठाष्टमादिरूपेण परि-समन्ताच्छोषितम्-अपचितीकृतमांसशोणितं कृशीकृतमितियावत् परिशोषितं, तथा प्रान्तं-जीर्णमलिनत्वादिभिरसारमुपधिः-वर्षाकल्पादिः स एव च उपकरणं-धर्मशरीरोपष्टम्भहेतुरस्येति प्रान्तोपध्युपकरणस्तं, यद्वोपधिः स एवोपकरणम्-औपग्रहिकं, द्वन्द्वगर्भश्च बहुव्रीहिः, 'उवहसंति'त्ति उपहसन्ति आर्याः-उक्तनिरुक्ता न तथा अनार्याः, यद्वा अनार्या-म्लेच्छाः, ततश्च साधुनिन्दादिना अनार्या इव अनार्या इति सूत्रार्थः॥ कथं पुनरनार्य कथं चोपहसितवन्तस्ते ? इत्याह
जाइमयं पडिथद्धा, हिंसगा अजिइंदिया। अबंभचारिणो वाला, इमं वयणमव्यवी ॥५॥
Jain Educatio
n
al
For Privale & Personal use only
ॐ
ainelibrary.org