________________
हरिकेशी
बृहद्वृत्तिः
यमध्यय
नम्. १२
उत्तराध्य.
कयरे आगच्छई दित्तरूवे ?, काले विकराले फुक्कनासे।
ओमचेलए पंसुपिसायभूए, संकरसं परिहरिय कंठे ॥६॥ जातिमदो-जातिदप्पो यदुत ब्राह्मणा वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा ये ते तथा, ॥३५८॥ 'हिंसकाः' प्राण्युपमईकारिणः 'अजितेन्द्रिया' न वशीकृतस्पर्शनादयोऽत एवाब्रह्म-मैथुनं तचरितुं-आसेवितुं शीलं
धर्मो वा येषां तेऽमी अब्रह्मचारिणो, वर्ण्यते हि तन्मते मैथुनमपि-'धर्मार्थ पुत्रकामस्य, खदारेष्वधिकारिणः । ऋतुहै काले विधानेन, तत्र दोषो न विद्यते ॥ १॥' तथा 'अपुत्रस्य गतिर्नास्ती'त्यादि, अत एव बाला इव बालक्रीडि
तानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते” ईदृशास्ते किमित्याह-'इदं वक्ष्यमाणलक्षणं 'वचनं वचः 'अबवित्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवन्-उक्तवन्तः। किं तदित्याह
'कयरे'त्ति कतरः, एकारस्तु प्राकृतत्वात् , तथा च तल्लक्षणं-“ए होति अयारते' इत्यादि, एवमन्यत्रापि, आगच्छति HI-आयाति, पठ्यते च-'को रे आगच्छइ'त्ति, ते ह्यन्योऽन्यमाहुः कोऽयमीहक रे' इति लघोरामन्त्रणं साक्षेपवचनेषु
च दृश्यते, 'दित्तरूवेत्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिबीभत्सोपलक्षकम् , अत्यन्तदाहिषु स्फोटकेषु शीतलकव्यपदेशवत्, विकृततया वा दुर्दर्शमिति दीप्तमिव दीप्तमुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानकः पिशाचवत् स एव विकरालकः, 'फोकत्ति देशीपदं, ततश्च फोका-अग्रे स्थूलोन्नता च नासाऽस्येति फोक
॥३५८॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org