SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ अथ द्वादशं हरिकेशीयमध्ययनम् । व्याख्यातमेकादशमध्ययनमधुना द्वादशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यत्त्रो विधेय इति ख्यापनार्थ तपःसमृद्धिरुपवर्ण्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वत् तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य हरिकेशीयमिति नाम, अतो हरिकेशनिक्षेपमाह नियुक्तिकृत्नामं ठवणादवि० ॥ ३९८ ॥ जाणयसरीरभविए० ॥ ३१९ ॥ हरिएसनामगोअं वेअंतो भावओ अ हरिएसो । तत्तो समुट्टियमिणं हरिए सिज्जंति अज्झयणं ॥ ३२० ॥ हरिकेशे निक्षेपश्चतुर्विधो नामादिः, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति 'द्रव्ये' द्रव्यविषयः - आगमनोआगमतश्च तत्र आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतश्च स त्रिविधो- ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तश्च, स पुनः त्रिविध:एकभविको बद्धायुकोऽभिमुखनामगोत्रश्च हरिकेशनामगोत्रं वेदयन् भावतस्तु हरिकेश उच्यते, ततोऽभिधेयभूतात् समुत्थितमिदं हरिकेशीयं इत्यध्ययनमुच्यते इति शेषः, इति गाथात्रयार्थः ॥ सम्प्रति हरिकेशवक्तव्यतामाह निर्युक्तिकृत् पुवभवे संखस्स उ जुवरन्नो अंतिअं तु पवज्जा । जाईमयं तु काउं हरिएसकुलंमि आयाओ ॥ ३२९ ॥ Jain Education national For Private & Personal Use Only jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy