________________
उत्तराध्य. बृहद्वृत्तिः
बहुश्रुतपूजाध्ययन
॥३५०॥
AASANSARKARANAS
तेषामधिपतिः चतुर्दशरत्नाधिपतिः, 'एवं भवति बहुश्रुतः' सोऽपि ह्यासमुद्रमहीमण्डलख्यातकीर्तिः तिसृषु विश्वन्यत्र च वन्दीभूतविद्याधरवृन्द इति दिक्चतुष्टयव्यापिकीर्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानादिधम्मॆरन्तः- कर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामोषध्यादयश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलब्ध्यादयश्च महत्य एवास्य भवन्ति, सन्ति चास्यापि चतुर्दशरत्नोपमानि सकलातिशयनिधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यतास्येति सूत्रार्थः ॥ अन्यच्च
- जहा से सहस्सक्खे, वजपाणी पुरंदरे । सक्के देवाहिवई, एवं हवइ बहुस्सुए ॥ २३ ॥ व्याख्या-यथा स सहस्रमक्षीण्यस्येति सहस्राक्षः-सहस्रलोचनः, अत्र च सम्प्रदायः-'सहस्सक्खत्ति पंच मंतिसया देवाणं तस्स, तेसिं सहस्सं अच्छीणं, तेसिं नीईए विक्कमति, अहवा जं सहस्सेणं अच्छीणं दीसति तं सो दोहिं अच्छीहिं अब्भहियगरागं पेच्छती'ति । वज्र-वज्राभिधानमायुधं पाणावस्येति वज्रपाणिः, लोकोक्त्या च पृ णात् पुरन्दरः, क ईगित्याह-शक्रो 'देवाधिपतिः' देवानां खामी, एवं भवति बहुश्रुतः, सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानतुल्यन लोचनसहस्रेणेव जानीते, यश्चैवं तस्यैवंविधत्वोपलक्षणं, वज्रमपि लक्षणं पाणी सम्भ
१ पञ्च मत्रिशतानि देवानां तस्य, तेषां सहस्रमणां, तेषां नीतौ विक्रमते, अथवा यत्सहस्रेणाक्ष्णां दृश्यते तत् स द्वाभ्यामक्षिभ्यामभ्यधिकतरं प्रेक्षते इति ।
॥३५॥
JainEducation
For Privale & Personal use only
brary.org