SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ %%* ** नयः प्रतिभादिगुणोदग्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः॥ अपरं च जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए॥२१॥ व्याख्या-यथा सयासुदेवः' विष्णुः, शङ्खश्च-पाञ्चजन्यः चक्रं च-सुदर्शनं गदा च-कौमोदकी शङ्खचक्रगदास्ताधारयति-वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम्-अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्येत्यप्रतिहतबलः, किमुक्त ४ भवति ?-एकं सहजसामर्थ्यवानन्यच्च तथाविधायोधान्वित इति, युध्यतीति योधः-सुभटो भवति, एवं भवति बहु श्रुतः, सोऽपि ोकं खाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपेत इति, योध इव योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः ॥ अपरं जहा से चाउरते, चक्कवट्टी महिड्डिए। चोदसरयणाहिवई, एवं हवइ बहुस्सुए ॥२२॥ व्याख्या-यथा स चतसृष्वपि दिक्ष्वन्तः-पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः खसम्बन्धितयाऽस्येति चतुरन्तः, चतुर्भिर्वा हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधिपः, महती ऋद्धिः-समृद्धिरस्येति महर्द्धिकः-दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-सेणावइ गाहावइ पुरोहिय गय तुरंग बड्डइग इत्थी । चक्कं छत्तं चम्म मणि कागिणी खग्ग दंडो य ॥१॥' १ सेनापतिः गाथापतिः पुरोहितो गजस्तुरङ्गो वर्धकिः स्त्री। चक्रं छत्रं चर्म मणिः काकिणी खड्गो दण्डश्च ।। १ ।। * ******** * Jain Education Alional For Privale & Personal use only nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy