________________
CAMERICAN
वतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्ठानतो दारयतीव दारयतीति पुरन्दरः, शक्रवत् देवैरपि । धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह-"देवावि तं नमसंति, जस्स धम्मे सया मणो"त्ति सूत्रार्थः ॥ अपि च
जहा से तिमिरविद्धंसे, उत्तिदृति दिवागरे। जलंते इव तेएणं, एवं भवइ बहुस्सुए॥ २४ ॥ व्याख्या-यथा सः तिमिरम्-अन्धकारं विध्वंसयति-अपनयति तिमिरविध्वंसः, 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः' सूर्यः, स हि ऊर्च नभोभागमाक्रामन्नतितेजखितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, यद्वा उत्थानं-प्रथममुद्गमनं तत्र चायं न तीव्र इति तीव्रत्वाभावख्यापकमेतत् , अन्यदा हि तीतोऽयमिति न सम्यग् दृष्टान्तः स्यात्, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा' महसा, एवं भवति बहुश्रुतः, सोऽपि ह्यज्ञानरूपतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उपसर्पस्तपस्तेजसा च ज्वलन्निव भवतीति सूत्रार्थः ॥ अन्यच्च
जहा से उडुवई चंदे, नक्षत्तपरिवारिए । पडिपुण्णे पुण्णिमासीए, एवं भवइ बहुस्सुए ॥२५॥ व्याख्या-यथा सः उडूनां-नक्षत्राणां पतिः-प्रभुः उडुपतिः, क इत्याह-'चन्द्रः' शशी, 'नक्षत्रैः' अश्विन्यादिभिः, उपलक्षणत्वाद्हैस्ताराभिश्च परिवारः-परिकरः सातोऽस्येति परिवारितः नक्षत्रपरिवारितः 'प्रतिपूर्णः'
१ देवा अपि तं नमस्यन्ति यस्य धर्मे सदा मनः ।
AGAR
Jan E
For Private & Personal use only
inelibrary.org