________________
SCIENCOU
आचार्यादेरभिमताहारादिभिरनुकूलकारी, एवं 'प्रियवाद्यपि' आचार्याभिप्रायानुवर्तितयैव वक्ता, तथा चास्य को गुण इत्याह-'स' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां 'लन्धुम्' अवाप्नुम् 'अर्हति' योग्यो भवतीति, अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षा लब्धं नाहतीत्यर्थादुक्तं भवति, तथा च यः शिक्षा लभते स बहुश्रुतः इतर स्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचार तस्यैव स्तवद्वारेणाह
जहा-संखमि पयं निहियं, दुहओवि विरायइ । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥१५॥ व्याख्या-'यथा' इति दृष्टान्तोपन्यासे 'शङ्ख' जलजे 'पयो' दुग्धं 'निहितं न्यस्तं दुहओवित्ति द्वाभ्यां प्रकाराभ्यां द्विधा, न शुद्धतादिना खसम्बन्धिगुणलक्षणेनैकेनैव प्रकारेण, किन्तु खसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, 'विराजते' शोभते, तत्र हि न तत् कलुषीभवति, न चाम्लतां भजते, नापि च परिस्रवति, 'एवम्' अनेन प्रकारेण बहुश्रुते 'भिक्खुत्ति आपत्वाद् भिक्षी-तपखिनि, 'धर्मः' यतिधर्मः 'कीर्तिः' श्लाघा 'तथा' इति धर्मकीर्त्तिवत् 'श्रुतम्' आगमो, विराजत इति सम्बन्धः, किमुक्तं भवति ?-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन खयं शोभाभाजि तथापि मिथ्यात्वादिकालुप्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तान्यपि हि न तत्र मालिन्यम् अन्यथाभावं हानि वा कदाचन प्रतिपद्य
RSCIENCESCHECRE0
Jan Ede
For Private & Personal use only