________________
उत्तराध्य.
बृहद्वृत्तिः
॥३४७॥
न प्रकृतसङ्ख्याविरोधः, 'अभिजातिए'त्ति अभिजातिः-कुलीनता ता गच्छति-उक्षिप्तभारनिर्वाहणादिनेत्यभि- बहुश्रुतपू. जातिगः, हीः-लज्जा सा विद्यतेऽस्य ह्रीमान् , कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते, 'प्रतिसंलीनः
जाध्ययनं. गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरन्नाह–'मुविनीतः' सुविनीतशब्दवाच्यः 'इति' इत्येवंविधगुणान्वितः उच्यते, इति सूत्राष्टकार्थः ॥ यश्चैवं विनीतः स कीटक स्यादित्याह
वसे गुरुकुले निचं, जोगवं उवहाणवं । पियंकरे पियंचाई, से सिक्खं लडुमरिहति ॥१४॥ ___ व्याख्या-वसेत् आसीत क?-गुरूणाम्-आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं सदा, किमुक्तं भवति?-यावजीवमपि गुर्वाज्ञायामेव तिष्ठेत् , उक्तं हि-"णाणस्स होइ भागी" इत्यादि, योजनं योगो-व्यापारः, स चेह प्रक्रमाद्धर्मगत एव तद्वान् , अतिशायने मतुप, यद्वा योगः-समाधिः सोऽस्यास्तीति योगवान् , प्रशंसायां मतुप, उपधानम्-अङ्गानङ्गाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृच्छ्भीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति वा, प्रियम्-अनुकूलं करोतीति प्रियङ्करः,। कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रिय-IN ॥३४७॥ | मेव चेष्टते, अत एव च 'पियंवाई'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा-'प्रियङ्करः'।
१ ज्ञानस्य भवति भागी । (थिरयरओ दसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुंचंति ॥ १ ॥)
Jain Education
B
onal
For Privale & Personal use only
www.jainelibrary.org