________________
उत्तराध्य.
बृहद्वृत्तिः
॥२३९॥
Jain Education Inte
मरणें अनंतभागो इक्केि मरइ आइमं मोतुं । अणुसमयाई नेयं पढमचरिमंतरं नत्थि ॥ २३९ ॥ व्याख्या- 'मरणे' प्रागुक्तरूपे अनन्तभाग एकैकस्मिन् म्रियते, किं सर्वस्मिन्नपि ? नेत्याह - 'आदिमम् ' आवीचि - मरणं, तस्यैवाद्यत्वात्, 'मुक्त्वा' अपहाय, इयमत्र भावना - शेषमरणखामिनो हि सर्वजीवापेक्षया अनन्तभाग एवेति तेष्वनन्तो भागो म्रियत इत्युच्यते, आवीचिमरणखामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इति - | कृत्वाऽनन्तभागहीनाः सर्वे जीवा म्रियन्ते इत्युच्यते । उक्तं कतिभागो म्रियते एकैकस्मिन्निति द्वारम् अधुनाऽनुसमयद्वारमाह- 'अणुसमय'त्ति समयं समयमनु अनुसमयं वीप्सायामव्ययीभावः, ततश्चानुसमयं - सततम्, 'आदि' प्रथममावीचिमरणं 'ज्ञेयम्' अवबोद्धव्यं, यावदायुस्तस्य प्रतिपादनात् शेषाणां त्वायुषोऽन्त्यसमय एवैकत्र भावाद - नुसमयतानभिधानं, बहुसमयविषयत्वादनुसमयतायाः, तथा च वृद्धव्याख्या- "पैढमे जाव आउं घरइ सेसाणं एगसमयं जहिं मरइ" न च 'मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्श्रेष्टताया एवाभिधानात्, मरणस्य तु तत्राप्यायुखुटिसमय एव सद्भावात्, तुः पूरणे। गतमनुसमयद्वारम् इदानीं सान्तरद्वारमाह — तत्र प्रथमचरम योरन्तरं - व्यवधानं 'नास्ति' न विद्यते, प्रथमस्यावीचिमरणस्य सदा सम्भवात् चरमस्य भवापेक्षया केव| लिमरणस्य पुनर्मरणाभावादिति भाव इति गाथार्थः ॥ २३९ ॥ शेषाणामपि किमेवमित्याह -
१ प्रथमं यावदायुर्धारयति शेषाणामेकसमयो यत्र म्रियते
For Private & Personal Use Only
अकाम
मरणाध्य.
५
॥२३९॥
www.jainelibrary.org