________________
वोत्पत्त्यभावान्न तद्भवमरणसम्भव इति गाथाश्रयार्थः ॥ २२७ - २२८ - २२९ ॥ गतं कति त्रियन्त एकसमय इति | द्वारम्, इदानीं कतिकृत्वो म्रियते एकैकस्मिन् ? इति द्वारमाह
| संखमसंखमणंता कमो उ इक्किगंमि अपसत्थे । सत्तट्ठग अणुबंधो पसत्थए केवलिंमि सई ॥ २३० ॥
व्याख्या- 'संखमसंखं 'ति आर्षत्वात् सङ्ख्याः - सङ्ख्याताः असङ्ख्या- अविद्यमानसङ्ख्याः अनन्ता - अपर्यवसिता, वारा इति प्रक्रमः, 'कमो उत्ति क्रमः परिपाटी, तुशब्दश्च कायस्थितेरल्पबहुत्वापेक्षयाऽयं ज्ञेय इति विशेषद्योतकः, 'एक्केकगंमि'त्ति एकैकस्मिन् 'अप्रशस्ते' बालमरणादौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरतौ च सङ्ख्याताः, शेषाः पृथिव्युदका शिवायुद्धीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः असङ्ख्याताः, वनस्पतयोऽनन्ता, एते हि कायस्थित्यपेक्षया यथाक्रमं बहुबहुतर बहुतम स्थितिभाज इतिकृत्वा । प्रशस्ते कति वारा म्रियत इत्याह- 'सत्तट्ठग' त्ति सप्त वाष्ट वा सप्ताष्टास्ते परिमाणमस्येति सप्ताष्टकः, कोऽसौ ? - ' अनुबन्धः ' सातत्येन भवनं तन्मरणानामिति, ततोऽय|मर्थ:-सप्त वा अष्ट वा वारा म्रियते, क्व ? - 'प्रशस्तके' सर्वविरतिसम्बन्धिनि पण्डितमरणे, इह च चारित्रस्य निरन्त| रमवायसम्भवात् तद्वत एव च प्रशस्तमरणभावादर्थाद् व्यवधानमपि देवभवैराश्रीयते, 'केवलिनि' यथाख्यातचा|रित्रवति समुत्पन्न केवले 'सई'ति सकृदेकमेव मरणमिति गाथार्थः ॥ २३० ॥ उक्तं कतिकृत्वो म्रियत एकैकस्मिन्निति द्वारं सम्प्रति कतिभाग एकैकस्मिन्मरणे म्रियत इति द्वारमाह
Jain Educaticational
For Private & Personal Use Only
jainelibrary.org