SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ संसाणं मरणाणं नेओ संतरनिरंतरो उ गमो। साई सपजवसिया सेसा पढमिल्लुगमणाइ ॥ २३२ ॥ * व्याख्या-शेषाणां मरणानाम्-अवधिमरणादीनां पञ्चदशानां ज्ञेयः, सहान्तरेण-व्यवधानेन वर्तत इति सा-3 न्तरः, निष्क्रान्तोऽन्तरान्निरन्तरश्च, तुःशब्दस्य समुच्चयार्थत्वात् , उक्तं हि-"तुशब्दो विशेषणपादपूरणावधारणसमुचयेषु" कोऽसौ ?-गम्यते अनेन वस्तुखरूपमिति गमः-प्ररूपणा, इदमुक्तं भवति-यदाऽन्यतरद्वालमरणादिकं प्राप्य म्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाप्नोति तदा सान्तरमिति प्ररूपणा, यदा तु बालमरणादिकमवाप्य पुनस्तदेवाव्यवहितमाप्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्वाचेह गमोऽपि सान्तरो निरन्तरश्चेत्युक्तः । सम्प्रति गाथापश्चार्धन कालद्वारमाह-सादीनि च सपर्यवसितानि च सादिसपर्यवसितानि 'शेषाणि'| षोडश वक्ष्यमाणापेक्षया अवधिमरणादीनि, एकसामयिकतायास्तेषामभिहितत्वात् , प्रवाहापेक्षया तु शेषभङ्गोपलक्षणमेतत् , प्रवाहतोऽपि भङ्गत्रयपतितानि शेषमरणानि सम्भवन्ति, तथा च वृद्धाः-"वालमरणाणि अणाइयाणि 3 वा अपज्जवसियाणि वा, अणादियाणि वा सपजवसियाणि, पंडियमरणाणि पुण साइयाणि सपजवसियाणि" मुक्त्यवाप्तौ तदुच्छित्तिसम्भवादिति भावः, 'पढमिल्लुगं'ति प्रथमकम्-आवीचिमरणम् 'अनादि' आदिरहितं प्रवा१ बालमरणानि अनादिकानि वा अपर्यवसितानि वा, अनादिकानि वा सपर्यवसितानि, पण्डितमरणानि पुनः सादिकानि सपर्यवसितानि Jain Education For Privale & Personal use only libraryong
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy