SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३४४॥ बहुश्रुतपूजाध्ययनं. BARSANSKRSSC प्रक्रान्ता, सा च बहुश्रुतखरूपपरिज्ञान एव कर्तुं शक्या, बहुश्रुतखरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव ज्ञायत इत्यबहुश्रुतखरूपमाह जे यावि होइ निविजे, थद्धे लुडे अनिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥ व्याख्या-'जे यावि'त्ति यः कश्चित् , चापिशब्दो भिन्नक्रमावुत्तरत्र योक्ष्यते, 'भवति' जायते निर्गतो विद्यायाःसम्यकशास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि, यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धिमान् , न विद्यते इन्द्रियनिग्रहः-इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनास|म्बद्धभाषितादिरूपेण लपति-वक्ति उल्लपति ‘अविनीतश्च' विनयविरहितः 'अबहुस्सुए'त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽबहुश्रुतः, उच्यते इति शेपः, सविद्यस्याप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावनीयम् , एतद्विपरीतस्त्वर्थाद् बहुश्रुत इति सूत्रार्थः ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यत इत्याह अह पंचहिं ठाणेहिं, जेहिं सिक्खा ण लब्भइ । थंभा कोहा पमाएणं, रोगेणालस्सेण य ॥३॥ अह अट्ठहिं ठाणेहिं, सिक्खासीलेत्ति बुच्चइ । अहस्सिरे सयादंते, न य मम्ममुयाहरे ॥४॥ नासीले ण विसीले, ण सिया अइलोलुए। अकोहणे सच्चरए, सिक्खासीलेत्ति वुचइ ॥५॥ 'अर्थ' इत्युपन्यासार्थः 'पञ्चभिः' पञ्चसङ्ख्यैः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि तैः, 'यैः' इति वक्ष्य ॥३४॥ ain Education inimignal For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy