SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Jain Education माणैर्हेतुभिः- शिक्षणं क्षिक्षा - ग्रहणासेवनात्मिका 'न लभ्यते' नावाप्यते, तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः, कैः पुनः सा न लभ्यते ? इत्याह-' स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन' मद्यविषयादिना 'रोगेण' गलतकुष्ठादिना 'आलस्येन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः चः समस्तानां व्यस्तानां च हेतुत्वमेषां द्योतयति ॥ इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्व हेतूनाह - अथाष्टभिः स्थानैः शिक्षायां शीलः - स्वभावो यस्य | शिक्षां वा शीलयति - अभ्यस्यतीति शिक्षाशीलः - द्विविधशिक्षा भ्यासकृद्, इतिशब्दः खरूपपरामर्शकः, उच्यते तीर्थ| कृद्गणधरादिभिरिति गम्यते, तान्येवाह- 'अहस्सिरे' त्ति "तृन इर" इति प्राकृतलक्षणादहसनशीलः अहसिता-न सहेतुकमहेतुकं वा हसन्ने वास्ते 'सदा' सर्वकालं 'दान्तः' इन्द्रियनोइन्द्रियदमवान्, 'न च' नैव 'मर्म' परापभ्राजनाकारि कुत्सितं जात्यादि 'उदाहरेत्' उद्घट्टयेत् । 'न' नैव 'अशीलः' अविद्यमानशीलः, सर्वथा विनष्टचारित्रधर्म इत्यर्थः, न 'विशीलः ' विरूपशीलः, अतीचारकलुषितत्रत इतियावत्, 'न स्यात्' न भवेद्, इह पूर्वत्र च सम्भावने लिट्, 'अतिलोलुपः' अतीव रसलम्पटः, 'अक्रोधनः' अपराधिन्यनपराधिनि वा न कथञ्चित् क्रुध्यति, सत्यम् - अवितथभाषणं तस्मिन् | रतः - आसक्तः सत्यरतः इति, निगमयितुमाह - शिक्षाशील 'इति' इत्यनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत | एव भवतीति भावः । इह च स्थानप्रक्रमेऽप्येवमभिधानं धर्मधर्मिणोः कथञ्चिदनन्यत्वख्यापनार्थ, विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानं, परिहारद्वयमपीदमुत्तरत्रापि भावनीयमिति सूत्रत्रयार्थः ॥ For Private & Personal Use Only inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy