________________
44--
XXXCOOK
जे किर चउदसपुत्री सव्वक्खरसन्निवाइणो निउणा।जा तेसिं पूया खलु सा भावे ताइ अहिगारो ३१७/ 6 व्याख्या-'ये' प्राग्वत् 'किल' इति वाक्यालङ्कारे 'चतुर्दशपूर्विणः' चतुर्दशपूर्वधराः सर्वाणि-समस्तानि या-2 दून्यक्षराणि-अकारादीनि तेषां सन्निपातनं-तत्तदर्थाभिधायकतया सागसेन घटनाकरणं सर्वाक्षरसन्निपातः स
विद्यते अधिगमविषयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः 'निपुणाः' कुशलाः, या 'तेषां' चतुर्दशपूर्विणां 'पूजा' उचितप्रतिपत्तिरूपा, उपलक्षणं चेयं शेषबहुश्रुतपूजायाः, प्राधान्याचास्या एवोपादानं, 'खलु' निश्चितं, सा 'भावे' भावविषया, 'तया' बहुश्रुतपूजालक्षणया भावपूजया इह 'अधिकारः' प्रकृतमिति गाथार्थः ॥ इत्युक्तो नामनिष्पन्न-2 निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। आयारं पाउकरिस्सामि, आणुपुचि सुणेह मे ॥१॥
व्याख्या-संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः आचरणमाचारः-उचितक्रिया विनय इतियावत्, तथा च वृद्धाः|'आयारोत्ति वा विणओत्ति वा एगट्ट'त्ति स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात् , तं 'प्रादुकरिष्यामि' प्रकटयिष्यामि आनुपूर्व्या, शृणुत 'मे' मम कथयत इति शेषः इति सूत्रार्थः ॥ इह च बहुश्रुतपूजा १ आचार इति वा विनय इति वा एकाएँ ।
For Private&Personal Use Only
w
Jain Education International
anesbrary