SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ दुमपत्रक बृहद्धृत्तिः मध्ययन उत्तराध्य. व्याख्या-'अबलः' अविद्यमानशरीरसामर्थ्यः 'यथा' इत्यौपम्ये भारं वहतीति भारवाहकः 'मा' निषेधे 'मग्गे| दात्ति मार्ग 'विसमे'त्ति विषमं मन्दसत्त्वैरतिदुस्तरम् 'अवगाहिय'त्ति अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यते, 'पश्चात् तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत् , भूरिति शेषः, इदमुक्तं भवति-यथा कश्चिद्देशान्त॥४०॥ रगतो बहुभिरुपायैः स्वर्णादिकमुपाय खगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवस्त्वन्तर्हितं वर्णादिकं स्खशिरस्यारोप्य कतिचिहिनानि सम्यगुद्वहति, अनन्तरं च क्वचिदुपलादिसङ्कले पथि अहो ! अहमनेन भारेणाऽऽक्रान्त इति तमुत्सृज्य स्वगृहमागतः अत्यन्तनिर्धनतयाऽनुतप्यते-किं मया मन्दभाग्येन तत्परित्यक्तमिति !, एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ बह्विदमद्यापि निस्तरणीयमल्पं च निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह तिण्णो हुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ। अभितुर पारं गमित्तए, समयं०॥ ३४॥ व्याख्या-तिण्णो हु सित्ति तीर्ण एवासि, अर्णवमिवार्णवं 'महं'ति महान्तं गुरूं, किमिति प्रश्ने पुनरिति वाक्यो| पन्यासे,ततः किं पुनस्तिष्ठसि ?, तीरं'पारम् आगतः'प्राप्तः, किमुक्तं भवति?-भव उत्कृष्टस्थितीनि वा कर्माणि भावतोदार्णव इत्युच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एव इति केन हेतुना तीरप्रासोऽप्यौदासीन्यं भजसे ?, नैवेदं तवोचितमित्याशयः।किन्तु 'अभितर'त्ति अभि-आभिमुख्येन त्वरख-शीघो भव, 'पारं' परतीरं भावतो मुक्तिपदं 'गमि ॥३४०॥ Jain Educatio n al For Privale & Personal use only 1 library
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy