SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ न पन्था-मार्यमाणत्वात् मार्गो-मोक्षस्तस्य ‘देसिय'त्ति सूत्रत्वाद्देशको मार्गदेशको दृश्यते, ततस्तस्यापि तत्प्रापकत्वं मामपश्यद्भिरपि भाविभव्यैर्निश्चेतव्यं, यतश्चैवं भाविभव्यानामुपदिश्यते अतः सम्प्रतीत्यादि प्राग्वत् , द्विविधाऽपि तावदित्थं व्याख्या सूचकत्वात् सूत्रस्येति गाथार्थः ॥ अत्रैवार्थे पुनरुपदिशन्नाह अवसोहिय कंटगापह, ओइन्नोऽसि पहं महालयं । गच्छसि मग्गं विसोहिया, समयं०॥३२॥ व्याख्या-'अवसोहिय'त्ति अवशोध्य-अपसार्य पृथकृत्य परिहत्येतियावत् , कम् ?-'कंटयापह'ति आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बब्बूलकण्टकादयः भावतस्तु चरकादिकुश्रुतयस्तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च 'अवतीर्णोऽसि अनुप्रविष्टो भवसि 'पहंति पन्थानं 'महालय'ति महान्तं महतां वाऽऽलयः-आश्रयो महालयः, स च द्रव्यतो राजमार्गः भावतस्तु महद्भिस्तीर्थङ्करादिभिरप्याश्रितः सम्यग्दर्शनादिमुक्तिमार्गस्तं, कश्चिदवतीर्णोऽपि मार्ग न गच्छेत् अत आह-'गच्छसि'-यासि मार्ग, न पुनरवस्थित एवासि, सम्यग्दर्शनाद्यनुपालनेन मुक्तिमार्गगमनप्रवृत्तत्वाद्भवतः, तत्राप्यनिश्चयेऽपायप्राप्तिरेव स्यात् इत्याह-'विशोध्य' इति विनिश्चित्य, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ एवं च पूर्वेण दर्शनविशुद्धिमनेन च मार्गप्रतिपत्तिमभिधाय| तत्प्रतिपत्तावपि कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽह अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समयं०॥ ३३ ॥ JainEducational For Privale & Personal use only Luinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy