________________
ACCASSENCEO-CA
विषयचैतन्यत्वात् , यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः॥ अन्यच्च सति शरीरे तत्सामर्थ्य च सति धर्मस्पर्शनेति तदनित्यताऽभिधानद्वारेणाप्रमादोपदेशमाह
परिजरह ते सरीरयं, केसा पंडरगा (य) भवंति ते । से सोयवले य हायह, समयं ॥२१॥ परि० चक्खुबले०॥ २२॥ घाणवले.॥२३॥० रसणवले. ॥२४॥० फासबले.॥२५॥ सव्वबले० ॥२६॥ व्याख्या-'परिजीर्यति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानतयाऽनुकम्पनीयमिति शरीरकं, यद्वा 'परिजूरइ'त्ति 'निन्देजूर' इति प्राकृतलक्षणात् परिनिन्दतीवाऽऽत्मानमिति गम्यते, यथा-धिग्मां कीदृशं जातमिति, किमिति?-यतः 'केशाः' शिरसिजाः, उपलक्षणत्वात् लोमानि च पाण्डुरा एव पाण्डुरका भवन्ति, पूर्व जननयनहारिणोऽत्यन्तकृष्णाः सम्प्रति शुक्लतां भजन्ते 'ते' तव, पुनस्तेशब्दोपादानं भिन्नवाक्यत्वात् उपदेशाधिकारत्वाच्चादुष्टम् , एवमुत्तरत्रापि, तथा 'से' इति तत् यत् पूर्वमासीत् श्रोत्रयोः-कर्णयो
लं-दूरादिशब्दश्रवणसामर्थ्य श्रोत्रवलं, 'चः' समुच्चये, 'हीयते' जरातः क्षयमुपैति, यद्वा-शरीरजीर्णताऽवस्था-४ *भाव्येतद्यमपि योज्यं, यथा-परिजीयते शरीरकं तथा च सति केशाः पाण्डुरका भवन्ति 'से' इत्यथ श्रोत्रबलं
हीयते यतः ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात् समयमपि गौतम ! मा प्रमादीः । एवं सूत्रपञ्चकमपि नेयं । नवरमिह प्रथमतः श्रोत्रोपादानं प्रधानत्वात् , प्रधानत्वं च तस्मिन् सति शेषेन्द्रियाणामवश्यं भावात् पटुतरक्षयोपश
CRICKASACC
Jain Education
a
l
For Privale & Personal use only
1Nahelibrary.org