________________
उत्तराध्य.
द्रुमपत्रक
बृहद्वृत्तिः
॥३३७॥
किमिति?-यतः-कुत्सितानि च तानि तीर्थानि कुतीर्थानि च-शाक्यौलूक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया खीकृतत्वात्ते कुतीर्थिनस्तानितरां सेवते यः स कुतीर्थिनिषेवको जनो-लोकः, कुतीर्थिनो हि यशःसत्काराद्येषिणो यदेव ।
मध्ययनं. प्राणिप्रियं विषयादि तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवंविधत्वात् , उक्तं हि-"सत्कारयशोलाभार्थिभिश्च मूद्वैरिहान्यतीर्थकरैः । अवसादितं जगदिदं प्रियाण्यपथ्यान्युपदिशद्भिः॥१॥” इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः १, पठ्यते च-'कुतित्थिणिसेवए जणे'त्ति स्पष्टः, एवं च तदुर्लभत्वमवधार्य समयमपि गौतम ! मा प्रमादीः । किंच-लब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा तां 'श्रुतिम्' उक्तिरूपां 'श्रद्धानं' तत्त्वरुचिरूपं 'पुणरावित्तिर पुनरपि 'दुर्लभं' दुरापम् , इहैव हेतुमाह-मिथ्याभावो मिथ्यात्वम्-अतत्त्वेऽपि तत्त्वप्रत्ययरूपं तं निषेवते यः स मिथ्यात्वनिषेवको जनो-लोकः, अनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, यत एवमतः समयमपि गौतम ? मा प्रमादीः । अन्यच्च-'धर्म' प्रक्रमात् सर्वज्ञप्रणीतम् 'अपिः' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्तुमभिलपन्तोऽपि दुर्लभकाः कायेन-शरीरेण, उपलक्षणत्वान्मनसा वाचा च, 'स्पर्शका' अनुष्ठातारः, कारणमाह-'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिषु 'मूर्च्छिता' मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति ||
॥३३७॥ शेषः, प्रायेण शपथ्येष्वेव विषयष्यभिष्वङ्गःप्राणिनां यत उक्तम-"प्रायेण हि यदपथ्यं तदेव चातुरजनप्रियं भवति । विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः॥१॥" पाठान्तरतः कामगुणैञ्छिता इव मूच्छिताः, विलुप्तधर्म-|
JainEducationinemabiona
For Private & Personal use only
www.jainelibrary.org