________________
अपहाय 'गेहं' गृहं 'वइदेही त्ति सूत्रत्वाद्विदेहा नाम जनपदः सोऽस्यास्तीति विदेही विदेहजनपदाधिपो, न त्वन्य एव कश्चिदिति भावः, यद्वा-विदेहेषु भवा वैदेही-मिथिला पुरी, सुब्व्यत्ययात्तां च त्यक्त्वेति सम्बन्धनीयं, 'श्रामण्ये' श्रमणभावे 'पर्युपस्थितः' उद्यतः, अभूदिति शेषः, यद्वा-नमिनमयति संयम प्रति प्रवणीकरोत्यात्मानं, कीदृशः ?
शक्रेण प्रेरितः, कथं?-साक्षात् खयं, न त्वन्यपार्श्वप्रहितसन्देशकादिना,श्रामण्ये पर्युपस्थितः, न तु तत्प्रेरणातोऽपि दधर्म प्रति विप्लुतोऽभूदितिभाव इति सूत्रार्थः॥ किमेष एवैवंविधः? उतान्येऽपीत्याह
एवं करिति संबुद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से णमिरायरिसि ॥ ६२॥ त्तिबेमि | व्याख्या-एवम्' इति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति, उपलक्षणत्वादकार्पः करिष्यन्ति च, न त्वयमेव, निदर्शनतयैवास्योपात्तत्वात् , कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति ?-'सम्बुद्धाः' मिथ्यात्वापगमतोऽवगत
जीवाजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयतः क्रियां प्रति प्रावीण्यवन्तः, ६ तथाविधाश्च सन्तः किं विदधति ?-'विनिवर्तन्ते' विशेषेण तदासेवनादुपरमन्ति, केभ्यः ?-'भोगेसु'त्ति भोगेभ्यः, किं
वत् ?-यथा स 'नमिः' नमिराजर्षिः निश्चलो भूत्वा तेभ्यो निवृत्त इति, यद्वोपदेशपरमेतत् , यत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, एवमिति कथमित्याह-भोगेभ्यो विनिवर्तन्ते, विशेषेण-अत्यन्तनिश्चलतालक्षणेन निवर्तन्ते ६ भोगेभ्यो, यथास 'नमिः' नमिनामा राजर्षिः, ततो भवद्भिरप्येवंविधैरित्थमेव विधेयमिति सूत्रार्थः॥ इतिः' परिसमाप्तौ |'ब्रवीमि' इति पूर्ववत् । नयाश्च प्राग्वदिति ॥ इति श्रीशान्त्याचा० मुत्तरा०शिष्य नवममध्ययनं समाप्तमिति ॥
'नमिराजा विनिवर्तन्तायाः 'प्रविचनावं कुर्वन्ति पन्त, उपलक्षारसि ॥३२॥
JainEducation
For Private & Personal use only