________________
उत्तराध्य.
नमिप्रत्र
ज्याध्य.९
बृहद्वृत्तिः
॥३१९॥
SCOORDAR MINORIES
एवं अभित्थुणंतो रायरिसिं उत्तमाऍ सद्धाए । पायाहिणं करेंतो पुणो पुणो वंदती सक्को॥ ५९॥ व्याख्या-'एवम्' अमुनोक्तन्यायेन अभिष्ट्रवन् 'राजर्षिम्' उक्तरूपं, प्रक्रमान्नमिम् , 'उत्तमया' प्रधानया 'श्रद्धया' भक्त्या 'पायाहिण'न्ति प्रदक्षिणां 'कुर्वन् विदधत् पुनः पुनः 'वन्दते' प्रणमति 'शक्रः' पुरन्दर इति सूत्रार्थः ॥ अनन्तरं च यत् कृतवांस्तदाह__तो वंदिऊण पाए चक्कंकसलक्खिए मुणिवरस्स । आगासेणुप्पतिओ ललियचवलकुंडलतिरीडी॥६०॥
व्याख्या-ततः' तदनन्तरं, पाठान्तरतश्च 'स' इति शक्रो वन्दित्वा पादौ चरणौ, चक्रं चाङ्कुशश्च प्रतीतावेव, तत्प्रधानानि लक्षणानि ययोस्ती तथा, मुनिवरस्य नमिनाम्न इति प्रक्रमः, तत 'आकाशेन' नभसा उदिति-ऊर्च देवलोकाभिमुखं पतितो गत उत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले कर्णाभरणे यस्यासौ ललितचपलकुण्डलः, स चासौ किरीटी च-मुकुटवान् ललितचपलकुण्डलकिरीटी इति सूत्रार्थः ॥ स एवंविधः खयमिन्द्रेणाभिष्ट्रयमानः किमुत्कर्ष मनस्याप्तवान् उत नेत्याह
णमी णमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामण्णे पज्जुवडिओ ॥ ६१॥ व्याख्या-नमिर्नमयति-भावतःप्रवीभवन्तमात्मानं स्वतत्त्वभावनया विशेषतः प्रगुणयति, न तूसिक्ततां नयति, तत्कालापेक्षया लट्, कथंभूतः सन् ?-'साक्षात्' प्रत्यक्षतामुपगम्य 'शक्रेण' इन्द्रेण 'चोइतोत्ति प्रेरितः 'त्यक्त्वा'
॥३१९॥
Jain Education International
For Private & Personal use only
libraryong