SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ SAMA विधस्य दातर्यदि कथञ्चिचारित्रमोहनीयक्षयोपशमेन 'संयमः' आश्रवादिविरमणात्मकः स्यात् तदा स एव 'श्रेयान् अतिशयप्रशस्यः, कथंभूतस्यापि ?-'अददतोऽपि' अयच्छतोऽपि 'किञ्चन' खल्पमपि वस्तु, यद्वा 'तस्सावित्ति तस्मादप्युक्तरूपाहातुरवधित्वेन विवक्षितातू , संयच्छति-प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु दर्शनादिति संयमः-संयमवान् , साधुरित्यर्थः, 'श्रेयान्' प्रशस्यतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदानधर्मात् 'संयमः' उक्तरूपः श्रेयान् , शेषं पूर्ववत्, गोदानं चेह यागाद्युपलक्षणम् , अतिप्रभूतजनाचरितमित्युपात्तम् , एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वमर्थादावेदितं, तथा च यज्ञप्रणेतृभिरुक्तम्-"षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥१॥” इयत्पशुवधे च कथमसावद्यता नाम ?, तथा दानान्यप्यशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह-"अशनादीनि दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ॥१॥"शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमर्दहेतुतया सावधान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धं । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो है हेतुः, प्रयोगश्च-यत्सावा न तत् प्राणिप्रीतिकरं, यथा हिंसादि, सावधानि च यागादीनि इति सूत्रार्थः ॥ 'एयमहें। ४१ सूत्रं प्राग्वत् । नवरमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थ शक इदमवादीत् घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा!॥४२॥ Jain Education interation For Privale & Personal use only Harijainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy