________________
उत्तराध्य. व्याख्या-घोरः' अत्यन्तदुरनुचरः, स चासावाश्रमश्च आङिति-स्वपरप्रयोजनाभिव्यात्या श्राम्यन्ति-खेदमनु- नमिप्रव
भवन्त्यस्मिन्नितिकृत्वा पोराश्रमो-गार्हस्थ्य, तस्यैवाल्पसत्त्वैर्दुष्करत्वात् , यत आहुः-"गृहाश्रमसमो धर्मो, न भूतो न || बृहद्धत्ति
ज्याध्य.९ भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः॥१॥" तं 'त्यक्वा' अपहाय 'जहित्ता णं'ति क्वचित् ॥३१५॥ पाठः, तत्र च हित्वा-'अन्यत्' एतद्व्यतिरिक्तं कृषिपाशुपाल्यादि अशक्तकातरजनातिनिन्दितं 'प्रार्थयसे' अभिलपसि,
द'आश्रम' प्रव्रज्यालक्षणं, नेदं क्लीवसत्त्वानुचरितं भवाशानामुचितमित्यभिप्रायः। तर्हि किमुचितमित्याह-'इह'।
अस्मिन्नेव गृहाश्रमे, स्थित इति गम्यते, पोपं-धर्मपुष्टिं धत्त इति पोषधः-अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतःआसक्तः पोषधरतः भवाहित्ति भव, अणुव्रतायुपलक्षणमेतद्, अस्यैव चोपादानं पोषधदिनेष्ववश्यंभावतस्तपोऽनुप्ठानख्यापकं, यत आह आससेनः-"सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतं पोषधं वसेद् ॥१॥” इति 'मनुजाधिप !' नृपते ।। अत्र च घोरपदेन हेतुराक्षिप्तः, तथाहि-यद्यद् घोरं तत्तद् धर्मार्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः, शेषमेतदनुसारतोऽभ्यूद्यमिति सूत्रार्थः ॥ ततश्च-'एय' सूत्रं ॥४३॥ प्राग्वत्।
॥३१॥ मासे मासे उ जो बालो, कुसग्गेणं तु झुंजइ । न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या-मासे मासे' इति वीप्सायां द्विर्वचनं, 'तुः' इहोत्तरत्र चैवकारार्थः, ततश्च मासे मास एव, न त्वेकस्मि
For Private & Personal use only
B.jainelibrary.org