________________
उत्तराध्य.
बृहद्वृत्तिः
॥३१४॥
ततश्च - यस्माद् 'आत्मैव' जीव एव दुर्जयः ततः सर्वमिन्द्रियाद्यात्मनि जिते जितम् अनेन चेन्द्रियादीनामेव दुःखहेतु| त्वात्तजयतः सुखप्राप्तिः समर्थिता भवति । एवं च फलोपदर्शनद्वारेणैवंविधैव विजिगीषुता श्रेयसीत्याचष्टे, ततश्च यो नृपतिरित्याद्यपि तत्त्वतो विजिगीषुत्वदर्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रार्थः ॥ भूयोऽपि - 'ए' ३७ सूत्रं प्राग्वत् । नवरमनन्तरपरीक्षातो द्वेषोऽप्यनेन परिहृत इति निश्चित्य जिनप्रणीतधर्म प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्
जता विउले जन्ने, भोइत्ता समणमाहणे । दच्चा भोचा य जट्ठाय, ततो गच्छसि खत्तिया ! ॥ ३९ ॥ व्याख्या - ' जत्त 'ति याजयित्वा 'विपुलान्' विस्तीर्णान् 'यज्ञान्' यागान् 'भोजयित्वा' अभ्यवहार्य श्रमणाश्व-निर्ग्रन्थादयो ब्राह्मणार्थ - द्विजाः श्रमणत्राह्मणास्तान्, 'दत्त्वा' द्विजादिभ्यो गोभूमिसुवर्णादीन् भुक्त्वा च मनोज्ञशब्दादीन् इष्ट्वा च राजर्षित्वावासौ स्वयं यागान् ततो गच्छ क्षत्रिय !, अनेन यद्यत्प्राणिप्रीतिकरं तत्तद्धर्माय, यथा हिंसोपरमादि, प्राणिप्रीतिकराणि चामूनि यागादीनीत्यादिहेतुकारणे सूचिते एवेति सूत्रार्थः ॥ शक्रवचनानन्तरम् 'एय' ३९ सूत्रं प्राग्वत् । -
जो सहस्सं सहस्साणं मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितंस्सवि किंचणं ॥ ४० ॥ व्याख्या - यः 'सहस्रं सहस्राणां दशलक्षात्मकं मासे मासे 'गवां' प्रतीतानां 'दए'त्ति दद्यात्, 'तस्यापि' एवं -
Jain Education International
For Private & Personal Use Only
मित्र
ज्याध्य. ९.
॥३१४॥
www.jainelibrary.org