________________
ACAMACREATop-41
कारिष सत्स 'नगरस्य' पुरस्य 'क्षेम' सुस्थं 'कृत्वा' विधाय 'ततः तदनन्तरं गच्छ क्षत्रिय !, एतेनापि यः सधा नृपतिः स इहाधर्मकारिनिग्रहकृत् , यथा भरतादिः, सधर्मनृपतिश्च भवानित्यादिहेतुकारणसूचना कृतैवेति सूत्रार्थः॥ इत्थं शक्रोक्तौ 'एय' २९ सूत्रं प्राग्वत् ।| असई तु मणुस्सेहिं, मिच्छादंडो पउंजइ । अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो॥३०॥ | व्याख्या-'असकृद्' अनेकधा, 'तुः' एवकारार्थः, ततश्चासकृदेव 'मनुष्यैः' मनुजैः 'मिथ्या' व्यलीकः, किमुक्तं भवति ?-अनपराधिष्वज्ञानाहङ्कारादिहेतुभिरपराधिष्विव दण्डनं दण्डः-देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापायते, कथमिदमित्याह-'अकारिणः' आमोपाद्यविधायिनः 'अत्र' इत्यस्मिन् प्रत्यक्षत उपलभ्यमाने मनुष्यलोके 'बध्यन्ते निगडादिभिर्नियन्यन्ते 'मुच्यते' त्यज्यते 'कारकः' विधायकः, प्रकृतत्वादामोषणादीनां, 'जनः' लोकः, तदनेन यदुक्तं प्राग-'आमोषकाद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छेति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तं. यत्तु 'यः सधर्मेत्यादि' सूचितं, तत्रापरिज्ञानतोऽनपराधिनामपि दण्डमादधतां सधर्मनृपतित्वमपि तावचिन्त्यमित्यसिद्धता हेतोरिति सूत्रार्थः ॥ 'एय' ३१ सूत्रं प्राग्वत्, नवरमियता स्वजनान्तःपुरपुरादिप्रासादनृपतिधर्मविषयः किमस्याभिष्वङ्गोऽस्ति ? नेति वेति विमृश्य सम्प्रति द्वेपाभावं विवेक्तुमिच्छुर्विजिगीषुतामूलत्वात् द्वेषस्य तामेव परीक्षितुकामः शक्र इदमुक्तवान्
उत्तराध्य. ५३
Jain Education
For Privale & Personal Use Only
T
obrary.org