________________
उत्तराध्य.
नमिप्रत्र
बृहद्वृत्तिः
ज्याध्य.९
॥३१॥
जे केइ पत्थिवा तुम्भं, नानमंति नराहिवा!। वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिा !॥३२॥ व्याख्या-ये केचित् इति सामस्त्योपदर्शकं 'पार्थिवाः' भूपालाः, 'तुभति तुभ्यं 'नानमन्ति' न मर्यादया प्रह्वीभवन्ति, तुभ्यमिति च नमतियोगेऽपि चतुर्थीदर्शनात् , 'मात्रे पित्रे च सवित्रे च नमामी'त्यादिवददुष्टमेव,
पठ्यते च–'तुभ'ति, तत्र च तवेति शेषविवक्षया षष्ठी, 'नराहिवा' इत्यत्र अकारो 'इखदीर्घा मिथ' इतिलक्षणात्, से ततश्च हे 'नराधिप ! नृपते ! 'वशे' इत्यात्मायत्तौ 'तानि'ति अनानमत्पार्थिवान् ‘स्थापयित्वा' निवेश्य कृत्वेति
यावत् , ततो गच्छ क्षत्रिय ! । इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता, यथा भरतादिः, इत्यादिहेतुकारणे |अर्थतः आक्षिप्ते इति सूत्रार्थः ॥ एवं तु सुरपतिनोक्ते 'एय' ३३ सूत्रं प्राग्वत् ।
जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥ ३४॥ __ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ? । अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहति ॥ ३५ ।।
पंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेच अप्पाणं, सव्वमप्पे जिए जितं ॥ ३६॥ व्याख्या-'य' इत्यनुद्दिष्टनिर्देशे 'सहस्रं' दशशतात्मकं सहस्राणां प्रक्रमात् सुभटसम्बन्धिनां 'सङ्ग्रामे' युद्धे 'दुर्जये दुरापपरपरिभवे 'जयेद्' 'अभिभवेत् , सम्भावने लिट्, 'एकम्' अद्वितीयं 'जयेत्' यदि कथञ्चिज्जीववीर्योल्लासतोऽभिभवेत् , कम् ?-'आत्मानं' स्वं, दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः 'से' इति तस्य जेतुः सुभटदश
॥३१३॥
Jain Educationaational
For Privale & Personal use only
www.jainelibrary.org