SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ SAHAR च्यते, एतेन च यदुक्तं-'प्राकारं कारयित्वे'त्यादि, तत्सिद्धसाधनम् , इत्थं श्रद्धानगररक्षणाभिधानात् भवतश्च तत्त्वतस्तदविज्ञतेति चोक्तं भवति, न च भवदभिमतप्राकारादिकरणे सकलशारीरमानसक्लेशवियुक्तिलक्षणा मुक्तिरवाप्यते, इतस्तु तदवाप्तिरपीति सूत्रत्रयार्थः ॥ एवं च तेनोक्त 'एय' २३ सूत्रं प्राग्वत् ।पासाए कारइत्ता णं, वड्डमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया! ॥२४॥ व्याख्या-प्रसीदन्ति नृणां नयनमनांसि येषु ते प्रासादास्तान् उक्तरूपान् 'वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याऽभिहितानि 'वालग्गपोइयातो य'त्ति देशीपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा, अन्ये त्वाकाशतडागमध्यस्थितं क्षल्लकप्रासादमेव 'वालग्गपोइया य'त्ति देशीपदाभिधेयमाहुः, ततस्ताश्च क्रीडास्थानभूताः कारयित्वा, ततोऽनन्तरं गच्छ क्षत्रिय !। एतेन च यःप्रेक्षावान् स सति सामर्थ्य प्रासादादि कारयिता यथा ब्रह्मदत्तादिः,प्रेक्षावांश्च सति सामर्थे भवान् , इत्यादिहेतुकारणयोः सूचनमकारीति सूत्रार्थः ॥एवं च शक्रेणोक्ते एय' २५ सूत्रप्राग्वत् । संसयं खलु सो कुणइ, जो मग्गे कुणंई घरं । जत्थेव गंतुमिच्छेन्जा, तत्थ कुविज सासयं ॥ २६ ॥ व्याख्या-संशीतिः संशयः-इदमित्थं भविष्यति नवेत्युभयांशावलम्बनः प्रत्ययस्तं, 'खलुः' एवकारार्थः, ततः संशयमेव स कुरुते-यथा मम कदाचिद्गमनं भविष्यतीति, यो मार्ग कुरुते गृहं, गमननिश्चये तत्करणायोगाद्, अहं तु न संशयित इत्याशयः, सम्यगदर्शनादीनां मुक्तिं प्रत्यवन्ध्यहेतुत्वेन मया निश्चितत्वादवाप्सत्वाच, यदि नाम ASS Jain Education RIAL For Privale & Personal use only A mbinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy