SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ एस अग्गी अवाओ अ, एयं डज्झति मंदिरं। भगवं! अंतेउरंतेणं, कीस णं नावपिक्खह ॥१२॥ व्याख्या-'एप' इति प्रत्यक्षोपलभ्यमानः 'अग्निश्च' वैश्वानरः 'वातश्च पवनस्तथा 'एतदिति प्रत्यक्षं 'दह्यते' भस्मसात् क्रियते, प्रक्रमाद्वातेरितेनाग्निनैव, 'मन्दिरं' वेश्म, भवत्सम्बन्धीति शेषः, भगवन्निति पूर्ववद्, 'अन्तेउरतेणं'ति अन्तःपुराभिमुख 'कीसत्ति कस्मात् ? 'णम्' इति वाक्यालङ्कारे 'नावप्रेक्षसे' नावलोकसे । इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं, यथा ज्ञानादि, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः ॥ ततश्च 'एयं' सूत्रं (१३) प्राग्वत् ॥ किमब्रवीत् ? इत्याह सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ १४ ॥ व्याख्या-'सुखं' यथा भवत्येवं 'वसामः' तिष्ठामः "जीवामः' प्राणान् धारयामः, येषां 'मो' इत्यस्माकं 'नास्ति' न विद्यते 'किञ्चन' वस्तुजातं, यतः-"एकोऽहं न च मे कश्चित् , स्वपरो वाऽपि विद्यते । यदेको जायते जन्तुम्रियते-13 ऽप्येक एव हि ॥१॥” इति न किञ्चिदन्तःपुरादि मत्सत्कं, यतश्चैवमतो 'मिथिलायाम्' अस्यां पुरि दह्यमानायां । न मे दह्यते 'किञ्चन' खल्पमपि, मिथिलाग्रहणं तु न केवलमन्तःपुरायेव न मत्सम्बन्धि किन्त्वन्यदपि खजनजनादि खस्वकर्मफलभुजो हि जन्तवः तथा तथाऽस्मिन् भ्राम्यन्तीति किमत्र कस्य स्वं परं चेति ख्यापनार्थ । ततश्चानेन Jain Education bio For Privale & Personal use only Sinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy