SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्धृत्तिः ॥३०९॥ प्रायम् , आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावं स्थितत्वेन उत्तरकालं च खखगतिगामितया द्रुमा नमिप्रनश्रितखगोपमा एवामी खजनादयः, उक्तं हि-"यद्वद् द्रमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि ज्याध्य.९ यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥१॥” इति, ततश्चाऽऽक्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनाभिधीयमानमसिद्धम् , एते हि खजनादयो वातेर्यमाणद्रुमविश्लिष्यत्खगा इव खखप्रयोजनहानिमेवाऽऽशङ्कमानाः क्रन्दन्ति, आह च-"आत्मार्थ सीदमानं स्वजनपरिजनो रौति हाहारवार्ता,भार्या चात्मोपभोगं गृह विभवसुखं स्वं च यस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वाऽन्यस्तत्र किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥१॥" एवं चाऽऽक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुकत्वमसिद्धं, खप्रयोजनहेतुकत्वात् तेषां, तथा च भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ ततश्चएयमढे निसामित्ता, हेउकारणचोइओ। ततो णमिं रायरिसिं, देविंदो इणमब्बवी ॥११॥ ॥३०९॥ व्याख्या-एनमर्थं निशम्य हेतुकारणयोः-अनन्तरसूत्रसूचितयोश्चोदितः-असिद्धोऽयं भवदभिहितो हेतुः । कारणं चेत्यनुपपत्त्या प्रेरितः हेतुकारणचोदितः, ततो नमि राजर्षि देवेन्द्रः 'इदं वक्ष्यमाणम् अब्रवीत् इति सूत्राथेः॥ किं तदित्याह Jain Educati For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy