________________
CSCR
उत्तराध्य.
बृहद्धृत्तिः
॥३०५॥
अनेकार्थत्वादङ्गीकुरुते वा, वर्तमाननिर्देशः प्राग्वत्, यद्वा 'समिक्ख'त्ति समैक्षिष्ट समीक्षितवान् 'धर्म' यतिधर्म नमिप्रत्रयदा 'ते' त्वया 'पैतृके' पितुरागते राज्ये कृता-विहिताः कृत्यानि कुर्वन्ति-अनुतिष्ठन्ति कृत्यकरा-नियोगिनो ४
ज्याध्य.९ बहवः-प्रभूताः, तदैव कृत्यकरत्वं स्वयं तव कर्तुमुचितमासीदित्युपस्कारः, 'तेषामिति कृत्यकराणां कृत्यं-परापराधपरिभावनादि कर्तव्यं 'परित्यज्य व्रताङ्गीकारादपहाय अद्य 'कृत्यकरो' नियुक्तकः-अन्यदोषचिन्तको 'भवान्' त्वं, किमिति जात इति शेषः। तथा 'मोक्खाय घडसी'ति प्राक्तत्वान्मोक्षाय-मोक्षार्थ घटते' चेष्टते, तथा 'अत्तणिस्सेसकारए। त्ति आत्मनो निःशेषमिति-शेषाभावं प्रक्रमात् कर्मणः करोति-विधत्त इत्यात्मनिःशेषकारकः, यद्वा 'णिस्सेस'त्ति निःश्रेयसो मोक्षस्तत्कारको । 'मोक्षमार्ग' मुक्त्यध्वानं 'प्रतिपन्नेपु' अङ्गीकृतवत्सु साधुपु ब्रह्मचारिपु 'अहियत्य'ति| 2 अहितार्थ 'निवारयन्' निषेधयन् 'न दोषं' परापवादलक्षणमस्येति शेषः, 'वक्तुम्' अभिधातुमर्हसि, यथा हि भवान् । अहितान्निवारयन् , कथं गर्हसीत्यादि, एवं नमिरपि अद्य कृत्य करो भवानिति कृत्यकरत्वलक्षणादहितान्निवारयति, तथा दुर्मुखोऽपि सञ्चयं किं करोपि ? इति सञ्चयत एवाहितान्निषेधयतीति नायं परापवाद इति वक्तुमुचितं, यद्वा- |॥३०५॥ 'अहियत्थं णिवारितोत्ति सुव्यत्ययादहितार्थानिवारयन्तं न 'दोष'मिति मतुब्लोपान्न दोषवन्तं वक्तुमर्हसि, तथा चार्षम्-"रूसऊ वा परो मा वा, विसं वा परियत्तउ । भासियव्वा हिया मासा, सपक्खगुणकारिया ॥१॥"
in Education International
For Private & Personal use only
www.jainelibrary.org