________________
| इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमु|चारणीयं तचेदम्
चऊण देवलोगाओ उववन्नो माणुसंमि लोगंमि । उवसंतमोहणिजो सरती पोराणियं जाई ॥ १ ॥ व्याख्या - युवा 'देवलोकात्' प्रतीतात्, 'उत्पन्नः' जातः 'मानुषे' मानुषसम्बन्धिनि 'लोके' प्राणिगणे उपशान्तम्- अनुदयं प्राप्तं मोहनीयं - दर्शनमोहनीयं यस्यासावुपशान्तमोहनीयः 'स्मरति' चिन्तयति, स्मेति शेषः, वर्तमाननिर्देशो वा प्राग्वत्, कामित्याह - 'पोराणियं ति पुराणामेव पौराणिकीं, विनयादित्वात् ठक्, चिरन्तनीमित्यर्थः, 'जातिम्' उत्पत्ति, देवलोकादाविति प्रक्रमः, तद्वतसकलचेष्टोपलक्षणं चेह जातिरिति सूत्रार्थः ॥ ततः किमित्याह
जाई सरितु भवं सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे अभिनिक्खमति नमी राया ॥ २ ॥ व्याख्या–‘जातिम्' उक्तरूपां स्मृत्वा भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, यदुक्तं - "धैर्य सौभाग्यमा| हात्म्ययशोऽर्कश्रुतधीश्रियः । तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः ॥ १ ॥” इति, तथापीह प्रस्तावाद्बुद्धिवचन एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान्, सहत्ति - स्वयमात्मनैव सम्बुद्ध: - सम्यगवगततत्त्वः सहसम्बुद्धो, नान्येन प्रतिबोधित इत्यर्थः, अथवा 'सहस'त्ति आर्यत्वात् सहसा - जातिस्मृत्यनन्तरं झगित्येव बुद्धः, केत्याह
Jain Education heational
For Private & Personal Use Only
**%*
jainelibrary.org