SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ - व्याख्या-'इह' अस्मिन् जन्मनि 'जीवितं' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियन्य पाप्रभ्रष्टाः' च्युताः, केभ्यः ?-'समाहियोगेहिति समाधिः-चित्तस्वास्थ्यं तत्प्रधाना योगाः-शुभमनोवाक्कायव्यापाराः समाधियोगाः, यद्वा समाधिश्च-शुभचित्तैकाग्रता योगाश्च-पृथगेव प्रत्युपेक्षणादयो व्यापाराः समाधियोगाः तेभ्यः. अनियवितात्मनां हि पदे पदे तभ्रंशसम्भव इति, 'ते' अनन्तरमुक्ताः कामभोगेषु अभिहितखरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धाः-तेष्वभिकानावन्तः कामभोगरसगृद्धाः, यद्वा रसाः-पृथगेव शृङ्गारादयो वा, भोगान्तर्गतत्वेऽपि चैषां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसम्बन्धिनि काये, असुरनिकाये इत्यर्थः, इदमुक्तं भवति-एवंविधाः किञ्चित् कादाचित्कमनुष्ठानमनुतिष्ठन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः॥ ततोऽपि च्युतास्ते किमाप्नुवन्तीत्याह तत्तोऽविय उवहित्ता संसारं बहुं परियडंति । बहुकम्मलेवलित्ताणं बोही होइ सुदुल्लहा तेसिं ॥१५॥ __व्याख्या-'ततोऽपि च' असुरनिकायाद् 'उदृत्य' तत्परित्यागेनान्यत्र गत्वा 'संसारं' चतुर्गतिरूपं बहुशब्दस्य 'बहुपूपे घृतं श्रेय' इत्यादिषु विपुलवाचिनोऽपि दर्शनाद्बई-विपुलं विस्तीर्णमितियावत् , बहुप्रकारं वा चतुरशीतियो| निलक्षतया 'अणुपरियति'त्ति अनुपरियन्ति, सातत्येन पर्यटन्तीत्यर्थः, पठन्ति च-'अणुचरंति'त्ति स्पष्टं, किंच-बहनि १ अणुपरियंति इति टीका ★RACKGROCARRANCY Sain Educa t ional For Privale & Personal use only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy