________________
कापिली
उत्तराध्य. बृहद्वृत्तिः ॥२९५॥
1-964
याध्य.८
व्याख्या-'ये' इति प्राग्वत् , 'लक्षणं च'शुभाशुभसूचकं पुरुषलक्षणादि, रूढितः तत्प्रतिपादकं शास्त्रमपि लक्षणं, तद्यथा-अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥ 'खप्नं चे'त्यत्रापि रूढितः स्वप्नस्य शुभाशुभफलसूचकं शास्त्रमेव, तद्यथा-'अलङ्कतानां द्रव्याणां, वाजिवारणयोस्तथा। वृषभस्य च शुक्लस्य, दर्शने प्रामुयाद्यशः ॥१॥ मूत्रं वा कुरुते खप्ने, पुरीपं चापि लोहितम् । प्रबुध्येत तदा कश्चिलभते सोऽर्थनाशनम् ॥२॥' 'अंगविजं च'त्ति अङ्गविद्यां च शिरप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिका 'सिरफुरणे किर रजं' इत्यादिकां विद्या, प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा, यद्वा-अङ्गानि-अझविद्याव्यावर्षिणतानि |भौमान्तरिक्षादीनि विद्या 'हलि ! २ मातङ्गिनी खाहा' इत्यादयो विद्यानुवादप्रसिद्धाः, ततश्चाङ्गानि च विद्याश्चाङ्गविद्याः, प्राग्वद् वचनव्यत्ययः, 'चः' सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते-व्यापारयन्ति, पुनर्ये इत्युपादानं लक्षणादिभिः
पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, ते किमित्याह-'न हु' नैव नाते' एवंविधाः 'श्रमणाः' साधवः 'उच्यन्ते' प्रतिपाद्यन्ते, इह च पुष्टालम्बनं विनतद्यापारणत एवमुच्यते, अन्यथा
करवीरलताभ्रामकतपखिनोऽप्येवंविधत्वापत्तेः, एवमार्यैः आचार्यैर्वा 'आख्यातं' कथितम् , अनेन यथावस्थितवस्तुवाअदितयाऽऽत्मनि परापवाददोषं व्यपोहत इति सूत्रार्थः ॥ ते चैवंविधा यदवामुवन्ति तदाह--
इह जीवियं अनियमित्ता पन्भट्ठा समाहिजोगेहिं । ते कामभोगरसगिद्धा उववजंति आसुरे काए ॥ १४ ॥
| ॥२९५॥
Jan Education
For Private & Personal use only
www.jainelibrary.org