SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ उत्तराज्य. ५० Jain Education सेविज्जा इत्यस्यानन्तरं द्रष्टव्यः, ततश्च प्रान्तान्यन्तानि च सेवेतैव न त्वसाराणीति परिष्ठापयेद्, गच्छनिर्गतापेक्षया वा प्रान्तानि चैव सेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात् कानि पुनस्तानीत्याह - 'सीयपिंडं' ति शीतलः पिण्डः- आहारः, शीतश्वासौ पिण्डश्च शीतपिण्डस्तं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यात् अत आह— 'पुराणा:' प्रभूतवर्षघृताः 'कुल्माषाः' राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीत्येतद्ब्रहणम्, उपलक्षणं चैतत् पुराणमुद्गादीनां, 'अदु' इति अथवा 'बुकसं' मुद्द्रमापादिनखिका निष्पन्नमन्नमतिनिपीडितरसं वा 'पुलाकम्' असारं वल्लचनकादि, वा समुच्चये, 'जवण'त्ति यापनार्थे - शरीरनिर्वाहणार्थ, वा समुच्चये, उत्तरत्र योक्ष्यते, 'सेवए' त्ति सेवेतोपभुञ्जीत, यापनार्थमित्यनेनैतत् सूचितं - यदि शरीरयापना भवति तदैव निषेवेत, यदि त्वतिवातो||द्रेकादिना तद्यापनैव न स्यात्ततो न निषेवेतापि, गच्छगतापेक्षमेतत्, तन्निर्गतश्चैतान्येव यापनार्थमपि निषेवेत, मन्धुं वा वदरादिचूर्णम्, अतिरूक्षतया चास्य प्रान्तत्वं, सेवेतेति सम्बन्धः, पठ्यते च - ' जवणट्ठाए णिसेवए मंथु ' ति, तथैव नवरं मन्थुमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, असारवस्तूपलक्षणं चोभयत्र मन्थुग्रहणं, पुनः क्रियाऽभिधानं च न सकृदेवावाप्तान्यमूनि सेवेत किन्त्वनेकधाऽपीतिख्यापनार्थमिति सूत्रार्थः ॥ यदुक्तं- 'शुद्धैषणाखात्मानं स्थापयेदिति, तद्विपर्यये बाधकमाह जे लक्खणं च सुविणं च अंगविज्जं च जे पउंजंति । न हु ते समणा वुच्छंति एवं आयरिएहिं अक्खायं ॥ १३॥ onal For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy